________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बा.रा.भू.
स समृद्धामिति । भवाय भद्राय । " भवो भद्रे हरे प्राप्तो सत्ता संसारजन्मसु ” इति वैजयन्ती ॥ ३ ॥ न सर्वसुलभं राजत्वमित्याह - राजानमिति । ॥ ३०३ ॥ प्राहुः प्राकृता जना इति शेषः । स राजा मम देवत्वे मतः । देवत्वेन सम्मत इत्यर्थः ॥ ४ ॥ तनि०- ये लोकाः राजानं मानुषं प्राहुः त एव यस्य ते धर्मार्थ
स समृद्धां मया सार्द्धमयोध्यां गच्छ राघव । अभिषेचय चात्मानं कुलस्यास्य भवाय नः ॥ ३ ॥ राजानं मानुषं प्राहुर्देवत्वे समतो मम । यस्य धर्मार्थसहितं वृत्तमाहुरमानुषम् ॥ ४ ॥ केकयस्थे च मयि तु त्वयि चारण्य माश्रिते । दिवमार्यो गतो राजा यायजूकः सतां मतः ॥ ५ ॥ निष्क्रान्तमात्रे भवति सहसीते सलक्ष्मणे । दुःख शोकाभिभूतस्तु राजा त्रिदिवमभ्यगात् ॥ ६ ॥ उत्तिष्ठ पुरुषव्याघ्र क्रियतामुदकं पितुः । अहं चायं च शत्रुघ्नः पूर्वमेव कृतोदकौ ॥ ७ ॥ प्रियेण खलु दत्तं हि पितृलोकेषु राघव । अक्षय्यं भवतीत्याहुर्भवश्चैव पितुः प्रियः ॥ ८ ॥ त्वामेव शोचंस्तव दर्शनेप्युस्त्वय्येव सक्तामनिवर्त्य बुद्धिम् । त्वया विहीनस्तव शोकरुग्णस्त्वां संस्मर न्नस्तमितः पिता ते ॥ ९ ॥ इत्यार्षे श्रीरामायणे वाल्मीकीये श्रीमदयोध्याकाण्डे एकोत्तरशततमः सर्गः ॥ १०१ ॥ सहितं वृत्तममानुषं प्राहुः । मनुष्यसंस्थानत्वेपि अतिमानुषशील वृत्तवेपेर तिलङ्घितसर्वलोक साम्पत्वेन देवत्वे नारायणत्वे मम संमत इत्यर्थः ॥ ४ ॥ एवं सन्निहितनीति प्रश्नस्योत्तरमुक्त्वा प्राथमिकराजविषय प्रश्नस्योत्तरमाह- केकयस्थ इति । यायजूकः इज्याशीलः । " इज्याशीलो यायजूकः " इत्यमरः ॥ ५ ॥ मन्नि गमनानन्तरं कृति दिवसेषु राजा दिवं गत इत्यत्राह - निष्क्रान्तमात्र इति ॥ ६ ॥ ७ ॥ भवद्भयां दत्ते किं मयापि दातव्यमित्यत्राह - प्रियेणेति ॥ ८ ॥ अप्रियत्वमेव दर्शयति-त्वामेवेति । रुग्णः पीडित इति यावत् ॥ ९ ॥ इति श्रीगोविन्दराजविरचिते श्रीरा० पीता• अयो० एकोत्तरशततमः सर्गः १० १ | भवाय भद्राय ॥ ३ ॥ देवत्वप्रापकतपश्चरणं विहाय मम राज्याभिषेकेण किमित्यत आह- राजानमिति । यद्यपि राजानं मानुषं प्राहुः तथापि मम देवत्वे सम्मतः । कुतः ? यस्य वृत्तममानुषं दिव्यं देवत्वसम्पादकमित्यर्थः । तपश्चरणेन क्रेशद्वारा देवत्वं राज्यपरिपालनेन भोगद्वारा देवत्वमिति भावः ॥ ४ ॥ नतु पितरि जीवति कुतो मम राज्याधिकारः ? इत्यत आह केकयस्थ इति । यायजूकः इज्याशीलः ॥५-८ ॥ त्वामेवेति । त्वामेव शोचन्नित्युक्त्वा पुनस्तव शोकमग्र इत्युक्तिः स एव शोकस्तस्यावसादहेतुरिति प्रतिपादयितुमिति ज्ञेयम् ॥९॥ इति श्रीमहेश्वरतीर्थ श्रीरामायणतत्त्वदीपि० अयोध्याकाण्डव्याख्यायाम् एकोत्तरशततमः सर्गः ॥ १०१ ॥
For Private And Personal Use Only
टी.अ.कां. म० १०१
॥३०३॥