________________
Shri Mahavir Jain Aradhana Kendra
www.kabatirth.org
Acharya Shri Kalassagarsuri Gyarmandir
मृतकल्पो न पुनर्जीविष्यतीति मृत इत्युच्यते । मातरश्च विधवाकल्पा इति विधवा इत्युच्यन्ते । अनेन ममाभिषेचनमेव प्राधान्येनोच्यत इत्य शोचनभिषेकप्रत्याख्यानं कृतवान् । स्ववाक्ये पितृमरणानुवादस्य चायमेवार्थः" इति । अत्रायं परिहारो न युज्यते । यदि च पिता मृतकल्पत्वेन। मृत इत्युच्यत इति रामो गृह्णीयात् तदा 'व्यादिश्य च महातेजा दिवं दशरथो गतः' इति नानुवदेत् । यस्तु स्वाशयं स्वयमेवैवमिति वदति तस्यान्येन गत्यन्तरे सति तद्विरुद्धाभिप्रायकल्पनं कथं कर्तुं शक्यम् ? अतोऽनेनैवानुवादेन रामेण पिता मृत इत्येव गृहीतमिति भाति। किञ्च प्रकृतीनां मातृणां
शाश्वतोऽयं सदा धर्मः स्थितोऽस्मासु नरर्षभ । ज्येष्टपुत्रे स्थिते राजन्न कनीयान् नृपो भवेत् ॥२॥ च समागमनात्पूवम् “इमाः प्रकृतयः सर्वा विधवा मातरश्च याः। त्वत्सकाशमनुप्राप्ताः प्रसादं कर्तुमहसि" इत्यङ्गुल्यादिनिर्देशानुपपत्तेश्च । अतः 'तं तु रामः समाज्ञाय" इत्यादिसर्गः वसिष्ठं पुरतः कृत्वेति व्युत्तरशततमसर्गानन्तरं चतुरुत्तरशततमसर्गत्वेन लेखनीयः पठनीयश्च । तथा चेत्सङ्गतः स्यात् । अतोऽव रामस्य वचनं श्रुत्वेत्ययं सर्ग एवं व्याख्यायते-रामस्य वचनं श्रुत्वेत्यादि । धर्मात् त्वत्सेवारूपमुख्यधर्मात् । यदा धर्मात त्वदुक्तराज धर्मानुष्ठानहेतुभूतराजभावात् । राजधर्मः त्वदुक्तनीतिस्थः ॥१॥ रामा-रामस्थेत्यादि । राजनीतिप्रतिपादकपूर्वसर्गस्थानन्तरम्-"रामस्य वचनं श्रुत्वा भरतः प्रत्युवाच ।। कि मे धर्मादिहीनस्य राजधर्मः करिष्यतीति प्रश्नोत्तरपरस्यास्य सर्गस्य स्थाने तं तु रामः समाज्ञाय भ्रातरं गुरुवत्सलम् । लक्ष्मणेन सह भ्रात्रा मष्टुं समुपचक्रमे । इत्ययं सर्गः केषु चित्कोशेषु दृश्यते । तत्तु न संगच्छते, पूर्वसर्गकृतप्रश्नस्योत्तराश्रवणान् । आर्य तातः परित्यज्य कृत्वा कर्म सुदुष्करम् । गतः स्वर्ग महाबाहुः पुत्रशोकाभिपीडितः " इत्युक्तपितृमरणश्रवणानन्तरं दुःखितत्वाश्रवणात् । प्रकृतीनां मातृणां च समागमनात्पूर्वम् “ इमाः प्रकृतयः सर्वा विधवा मातरश्च याः । त्वत्सकाशमनुप्राप्ताः प्रसाद कर्तुमर्हसि " इत्यङ्कलिनिर्देशानुपपत्तेश्च । तं तु राम इत्यादिसर्गस्य स्थान तु-वसिष्ठः पुरतः कृत्वा दारान् दशरथस्य च । अभिचकाम तं देश रामदर्शनतर्षितः । इत्यादिसर्गस्यानन्तरम् ॥१॥ कुतस्ते राजभावाभाव इत्यत्राह-शाश्वत इति । अस्मासु अस्मत्पूर्वेषु ॥२॥ तनिक-कि मे धर्माद्विहीनस्प राजधर्मः करिष्यति । शाश्वतोऽयं सदा धर्मः स्थितोऽस्मासु नरर्षभ ॥ धर्मात् रामकैडूर्यरूपपरमै कान्तिधर्मात् । स्वरूपनिरूपकशेषत्वधर्मादा । विहीनस्य राजधर्मः तद्विरोधिसामान्यधर्मः । अयं पूर्वोक्तः शाश्वतो नित्यसिद्धः अस्मासु सदा स्थितः । शत्रुघ्नलक्ष्मणा पेक्षया बहुवचनम् । नरर्षभ पुरुषोत्तम ॥ १॥२॥ त्वत्सेवारूपमुख्यधर्मात् ॥१॥ शाश्वतः कुलक्रमागतः। अस्मासु अस्मात्पूर्वेषु । तदेवाह ज्येष्ठपुत्र इति ॥ २॥
For Private And Personal Use Only