________________
Shri Mahavir Jain Aradhana Kendra
www.kabatirth.org
Acharya Shri Kailassagarsur Gyanmandir
वा.रा.म. ॥३०॥
TON
टी.अ.का.
स.१०१
वर्तत इत्युक्तिः। पितामहस्य अजस्य चिरं राज्यपारीपालनाभावात् प्रपितामहा इत्युक्तम् । प्रपितामहाः प्रपितामहप्रभृतयः । यथा “सप्तमी शौण्डेः" इत्यत्र " शौण्डादिभिः" इतिवृत्तिकारः । अत्र अवर्तन्तेत्यध्याहार्यम् । पित्राद्यननुष्ठितस्याननुष्ठाने प्राप्ते आह-या च सत्पथगा शुभेति । सत्पथगा। सन्मार्गानुसारिणी । शुभा अनिन्दिता ॥ ७९ ॥ कच्चिदिति । स्वादुकृतं मधुरतया सिद्धम् । आशंसमानेभ्यः, धनमिति शेषः॥७६॥ एवमाचरतो राज्ञःणि
कच्चित् स्वादु कृतं भोज्यमेको नानासि राघव । कच्चिदाशंसमानेभ्यो मित्रेभ्यः सम्प्रयच्छसि ॥ ७६ ॥ राजा तु धर्मेण हि पालयित्वा महामतिर्दण्डधरः प्रजानाम् । अवाप्य कृत्स्ना वसुधां यथावदितश्च्युतः स्वर्गमुपैति विद्वान् ॥ ७७ ॥ इत्याचे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे शततमः सर्गः ॥१०॥
रामस्य वचनं श्रुत्वा भरतः प्रत्युवाच ह । किं मे धर्माद्विहीनस्य राजधर्मः करिष्यति ॥१॥ ऐहिकामुष्मिकफले दर्शयति-राजा वित्यादिना । तुशब्देन राजवेलक्षण्यमुच्यते । हिः प्रसिद्धी । पालयित्वा, महीमिति शेषः । महामतिः उक्तनीति धर्मज्ञः । दण्डधरः युक्तदण्डधरः । यथावत् पूर्वराजवत् । इतः अस्माल्लोकात् च्युतः प्रारब्धकविसाने मृत इत्यर्थः । विद्वान् शरीरभिन्त्रात्मज्ञान वान् ॥७७॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने शततमः सर्गः ॥ १० ॥
रामस्य वचनं श्रुत्वा भरतः प्रत्युवाचह इत्यादि अयं सर्गएवात्र लेखनीयः। तं तु रामः समाज्ञाय भ्रातरं गुरुवत्सलम्' इत्यादिसर्गस्तु लेखक प्रमादाल्लिखितः। तस्योक्तप्रश्नोत्तरत्वाभावात् । अत्र भरतोच्यमानपितृमरणश्रवणानन्तरं रामस्य दुःखितत्वाश्रवणात् । अत्र महेश्वरतीर्थेन सर्गपौर्वापर्य विपरीत्यमनालोच्य स्वदृष्टकोशमात्रप्रामाण्येन तंतु रामः समाज्ञाय' इत्यादिकं सर्गमेवैकोत्तरशततमं मन्दानेन तत्सर्गव्याख्यानान्ते तत्रत्यार्थविरोधात मालोच्यैवमाक्षेपपरिहारावुक्तो। " ननु-आयें तातः परित्यज्य कृत्वा कर्म सुदुष्करम् । गतः स्वर्ग महाबाहुः पुत्रशोकाभिपीडितः ॥ इति । इमाः प्रकृतयः सर्वा विधवा मातरश्च याः। त्वत्सकाशमनुप्राप्ताः। इति च भरतेनोक्ते रामस्तदानीमशोचन् तदुल्लङ्घयाभिषेकप्रत्याख्यानमेव किमिति कृतवान् निष दोषः । तस्मिन् भरतवाक्यप्रबन्धे पितृमरणमानुपङ्गिकत्वेनोक्तं राज्यस्वीकरणमेव प्राधान्येनोक्तम् । अतो रामस्तदेवं मन्यते । पिता पुत्रशोकेन ॥७६॥७७॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायो अयोध्याकाण्डव्याख्यायां शततमः सर्गः ॥ १० ॥ रामस्येत्यादि । किमिति धर्मात्
॥३०२॥
For Private And Personal Use Only