________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
Mइन्द्रविरोधी शम्बरः । मित्रार्थयोरित्यत्र मित्रं मित्रार्थस्तदनुबन्धी चेत्यर्थः । यद्वा मित्रं मित्रस्यार्थः तदनम् । अर्थस्यावमानो हरणमेव । भूतानु।
ग्रहविच्छेदः लोकानुग्रहराहित्यम् । मण्डलदूषणं मण्डलशब्देन स्वमन्त्रिसेनापतिसुहृदादिरुच्यते, तस्य दूषणं तद्विषटनम् । एकाभिनिवेशित्वं स्वाभिमतविषयाभिलाषित्वम् । प्रकृतयश्च मण्डलं च प्रकृतिमण्डलम् । प्रकृतयस्तावत्-"अमात्यराष्ट्रदुर्गाणि कोशो दण्डश्च पञ्चमः। एताः प्रकृतय। स्तज्ज्ञैर्विजिगीषोरुदाहृताः॥" इति कामन्दकोक्ताः । मण्डलं द्वादशविधराजात्मकम्-मध्यतो विजिगीषुः तस्य शत्रुः मित्रं शत्रोमित्रं मित्रमित्रं शत्रुमित्रमित्रं चेति पुरोवर्तिनः पञ्च। पाणिग्राहः आनन्दः पाणिग्राहासारः आकन्दासारश्चेति पृष्ठभागस्थाश्चत्वारः । पार्श्वस्थोमध्यमः तेषां बहिरव स्थित उदासीनश्चेति । तथाच कामन्दकः-"सम्पन्नस्तु प्रकृतिभिर्महोत्साहः कृतश्रमः। जेतुमेषणशीलश्च विजिगीषुरिति स्मृतः॥ अगिर्मित्रममित्र मित्र पमित्रमतःपरम् । तथारिमित्रमित्रं च विजिगीषोः पुरस्सराः॥पाणिग्राहस्ततः पश्चादाकन्दस्तदनन्तरः। आसारावनयोश्चैव विजिगीषोस्तु पृष्ठतः॥अरेश्व विजिगीषोश्च मध्यमो भूम्यनन्तरः । अनुग्रहे संहतयोर्व्यस्तयोनिग्रहे प्रभुः॥ मण्डलादहिरेतेषामुदासीनो बलाधिकः। अनुग्रहे संहतानां व्यस्तानां च वधे प्रभुः" इति अत्र शत्रुमित्रशब्दी पुरस्ताव्यवहितानन्तरराष्ट्राधिपतिमेकव्यवहितानन्तरराष्ट्राधिपतिं चक्रमेण वदतः। पाणिग्राहाकन्दशब्दावपि पृष्ठत यस्तादृशौ क्रमेण वदतः नतु प्रसिद्धशत्रुमित्रपरौ । “विषयानन्तरो राजा शर्मित्रमतःपरम् । उदासीनः परतरः पाणिग्राहस्तु पृष्ठतः।"इत्यमरः। आसारः सुहवलम् । “आसारः स्यान्मित्रबले" इति रत्नमाला । मध्यमशब्देन च अरिविजिगीषोय॑स्तयोः समस्तयोश्च निग्रहानुग्रहसमर्थः। पार्श्वदेशस्थः कश्चिदुक्तेभ्योऽन्यो राजोच्यते न तु मध्यवर्ती । उदासीनशब्देन च एतेषां सर्वेषामपि व्यस्तानां समस्तानां च निग्रहानुग्रहसमर्थः कश्चिद्विप्रकृष्टदेशस्थो नोपेतो बलव्यसनसङ्कलः । अदेशस्थो बहुरिपुर्युक्तोऽकालेन यश्च सः । सत्यधर्मव्यपेतश्च विंशतिः पुरुषा अमी । एतैस्सन्धि न कुर्वीत विग्रहीयानु केवलम् । अथ प्रकृतिमण्डलम्-प्रकृतयश्च मण्डलं च प्रकृतिमण्डलम् । प्रकृतयस्तावकामन्दकीये “ अमात्या राष्ट्रदुर्गाणि कोशो दण्डव पक्षमः । एताः प्रकृतयस्तज्जैविजिगीषो। रुदाहताः" इति । मण्डलं द्वादशविधराजात्मकम् । तेच मध्यतो विजिगीषुः तस्यारिः मित्रं अरेमित्र मित्रशत्रुः शत्रुमित्रमित्रं चेति पुरोवर्तिनः पञ्च । पाणिग्राहः आक्रन्दस्तयोरासाराविति पाणिग्राहासारः आक्रन्दासार इति पृष्ठभागस्थाश्चत्वारः एवं नव भवन्ति, विजिगीषुर्दशमः, पार्थस्थो मध्यमः तेषां बहिरवस्थित उदासीनश्चेति मध्यमोदासीनाभ्यां साकं द्वादशविधाः । तथा कामन्दः “सम्पन्नस्तु प्रकृतिभिर्महोत्साहः कृतनमः । जेतुमेषणशीलश्च विजिगीषुरिति स्मृतः। अरिमित्रमरेमि मित्रामित्रमतःपरम् । अथारिमित्रमित्रं च विजिगीषोः पुरस्सराः। पाणिग्राहस्ततः पश्चादाक्रन्दस्तदनन्तरम् । आसारावनयोश्चैव विजिगीषोस्तु पृष्ठतः। अरेश्व विजिगीषोश्च मध्यमो भूम्यनन्तरः । अनुग्रहे संहतयोर्यस्तयोनिग्रहे प्रभुः । मण्डलाइहिरेतेषामुदासीनो बलाधिकः । अनुग्रहे संहतानां व्यस्ताना
ॐ
For Private And Personal Use Only