________________
Shri Mahavir Jain Aradhana Kendra
www.kabatirth.org
Acharya Shri Kalassagarsuri Gyarmandir
पा.रा.भू.
३.
एव पाइगुण्यम् । सायेभ्यम् । ते य सन्धिवित्रहयानानवी भावसमात्रयः । देवमानुपं देवननुपम आगतं यानित्यः । देवं गाडरसन प्रत्येकं पञ्चविधम् । यथाह कामन्दकीये-"हुताशनो जलं व्याधिभिक्षं मरणं तथा । इति पञ्चविषं देवं मानुषं व्यसनं परम् ॥ आयुक्तकेभ्यश्चोरेभ्यः परेभ्यो राजवल्लभात् पृथिवीपतिलोभाच व्यसनं पञ्चधा भवेत्॥” इति । आयुक्तकाः अधिकारिणः कृत्यम् अलब्धवेतनावमानितकोपितभीपितेषु शत्रु सम्बन्धिष्वभिमतवस्तुप्रदानेन कर्त्तव्यं भेदनम् । अत्राप्याह कामन्दक:-"अलब्धवेतनो लुब्धो मानी चप्यवमानितः । क्रुद्धश्च कोपितोऽकस्मात्तथा भीतश्च भीषितः । यथाभिलपितेः कामभिन्द्यादेतांश्चतुर्विधान् ॥” इति । असन्धेयाः विग्राह्याः बालवृद्धादयो विशतिविधाः। प्रतिपक्षनृपतयो विंशतिवर्ग इत्युच्यते । यथाह कामन्दकीये-"बालो वुद्धो दीर्घरोगी तथा ज्ञातिबहिष्कृतः । भीरुको भीरुजनको लुब्धो लुब्धजनस्तथा । विरक्तप्रकृतिश्चैव विषयेष्वतिसक्तिमान् । अनेकचित्तमन्त्रश्च देवब्राह्मणनिन्दकः। देवोपहतकश्चैव देवचिन्तक एव च । दुर्भिक्षव्यसनोपेतो बलव्यसनसङ्कुलः । अदेशस्थो बहुरिपुर्युक्तोऽकालेन यश्च सः । सत्यधर्मव्यपेतश्च विंशतिः पुरुषा अमी । एतैः सन्धि न कुर्वीत विगृह्णीयात्तु केवलम् ॥” इति । ज्ञातिबहिष्कृतः बन्धुजनबहिष्कृतः । भीरवः जनाः मन्त्रिसेनापतियोधाः यस्य सः भीरुजनकः । एवमेव लुब्धजन इत्यत्रापि । लुब्धाः अत्यन्तधनाशापराः । देवोप इतकः महर्षिशापाद्यभिहतः देवचिन्तकः देवमेव सर्वं कुर्यादिति मत्वा पुरुषव्यापारमकुर्वाणः । बलव्यसनं सेनाविलयः। अदेशस्थः प्रोषितः अकालेन युक्तः क्रूरग्रहदशाभागादियुक्तः । यद्वा विग्रहकारणभूतो राज्यापहारादिविंशतिवर्गः । अत्र च कामन्दक:-"राज्यस्त्रीस्थानदेशानां ज्ञातीनां च धनस्य च । अपहारो मदो मानः पीडा वैषयिकी तथा । ज्ञानार्थशक्तिधर्माणां विधातो देवमेव च । मित्रार्थयोश्चावमानस्तथा बन्धु विनाशनम् । भूतानुग्रहविच्छेदस्तथा मण्डलदूषणम् । एकार्थाभिनिवेशित्वमिति विग्रहयोनयः॥” इति । अत्रापहारशन्दः पूर्वः पइभिः सम्बध्यते ।। वैषयिकी पीडा विषयपारवश्यम् । विघातशब्दो ज्ञानादिभिश्चतुर्भिरन्वेति । देवशब्देन देवा इन्द्रादय उच्यन्ते । तेषां विरोध्यपि विग्राह्यः। यथा दशरथस्य कर्तव्यं भेदनं कृत्यशब्देनोच्यते । तथा च कामन्दकीये "अलब्धवेतनो लुब्धो मानी चाप्यवमानितः । कुश्च कोपितोऽकस्मात्तथा भीतश्च भीषितः । यथामिल पितः कामभिंद्यादेताश्चतुर्विधान।" इति । असन्धेया विग्राह्यो विंशतिवर्गः । तथा च कामन्दकीये "बालो वृद्धो दीर्घरोगी तथा ज्ञातिबहिष्कृतः। भीरुको भीरुज नको लुब्धो लुग्धजनस्तथा । विरक्तप्रकृतिश्चैव विषयेष्वतिसक्तिमान् । अनेकचित्तमन्त्रश्च देवब्राह्मणानिन्दकः । देवोपहतकश्चैव देवचिन्तक एव च । दुर्भिक्षव्यस | कतक०-राज्यस्त्रीस्थानदेशानां ज्ञातिधनवाच यस्यापहारस्ते षट् । मदमानदेशपीटावन्तस्त्रपः । ज्ञानार्यशक्तिधर्माणी येषा विधातस्ते चत्वारः । देवचिन्तकः रिपुमित्रावमन्तारी बन्धुविनाशनं यस्य लोकानुग्रह रहितः दूषितमण्डलः एका मिनिवेशित्वं यस्य एते विमाया एवं ॥
॥३०॥
For Private And Personal Use Only