SearchBrowseAboutContactDonate
Page Preview
Page 608
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kabatirth.org Acharya Shri Kalassagarsur Gyarmandir बा.रा.भू. ॥३०॥ राजोच्यते॥७०|यात्रा दण्डविधानं यात्रा यानं दण्डस्य सैन्यस्य विधानं संविधानं व्यूहभेदविधानम् । यद्वा दण्डः शत्रुनिरसनं तस्य विधानं प्रकार यात्रा च टी .अ.का. दण्डविधानं च यात्रादण्डविधानम् । प्रकृतिमण्डलमित्यत्रात्रचैकवद्भावः। सेनाव्यूइभेदाः पूर्वमुक्ताः शत्रुनिरसनप्रकाराश्च स्फुटाःसुज्ञेया इति यात्राशब्दितं यानं प्रदश्यते । तच्च पञ्चविधम्-बलातिशयेन पाणिग्राहादिभिर्विगृह्य शत्रूद्देशेन यानं विगृह्ययानम्, पाणिग्राहादिभिः सन्धि कृत्वा शत्रूद्देशेन यानं सन्धाययानम्, सामन्त समेत्य यानं सम्भूययानम्, अन्योद्देशेन यात्राप्रसङ्गमुत्पाद्य अन्यप्रति यानं प्रसङ्गतोयानम्, अन्यप्रसङ्गं कृत्वा बलवत्तया तमुपेक्ष्य यात्रादण्डविधानञ्च द्वियोनी सन्धिविग्रहौ । कच्चिदेतान महाप्राज्ञ यथावदनुमन्यसे ।। ७१ ॥ तन्मित्रोद्देशेन यानमुपेक्ष्ययानमिति। यथा कामन्दकीये-“विगृह्य सन्धाय तथा सम्भूयाथ प्रसङ्गतः । उपेक्ष्य चेति निपुणैर्यानं पञ्चविधं स्मृतम् ॥” इति।। द्वियोनी इति । सन्धिविग्रहयानासनद्वैधीभावसमाश्रयाः पडणाः पृथक पृथकू प्रतिपादिताः । इदानी द्वैगुण्यमतावलम्बनेन यानादीन् सन्धिविग्रहयोरन्त || भाव्य वदति । यानासने विग्रहस्य स्वरूपं द्वैधीभावसमाश्रयो सन्धे रूपम् । तत्र विजिगीषोरि प्रति यात्रायानं तयोमिथः प्रतिबद्धशक्त्योः कालप्रतीक्षया तूष्णीमवस्थानमासनम् । दुर्बलस्य प्रबलयोपितोर्वाचिकमात्मसमर्पणं द्वैधीभावः। तथाह-" बलिनोदिपतोर्मध्ये वाचात्मानं समर्पयन् । द्वैधीभावेन । वर्तेत काकाक्षिवदलक्षितः ॥” इति । अरिणा पीड्यमानस्य बलवदाश्रयणं समाश्रय इति विवेकः । तदुक्तं कामन्दकेन-“ यानासने विग्रहस्य रूपं सद्भिरिति स्मृतम् । सन्धेश्च सन्धिमार्गद्वधीभावसमाश्रयो॥” इति । एतान् पूर्वोक्तान् यथावदनुमन्यसे अनुतिष्ठसि कच्चिदित्यर्थः । उक्तदश च बधे प्रभुः" इति ॥७०॥ अथ याबादण्डविधान सैन्यसंविधानं शत्रुनिरसनप्रकारस्य यानं पञ्चविधम् । तथा च कामन्दकीये “ विगृह्य सन्धाय तथा सम्भूयाय - प्रसङ्गतः। उपेक्ष्य चेति निपुणैर्यानं पञ्चविधं स्मृतम् ॥” इति । बलातिशयेन पाणिग्राहादिभिविगृह्य शत्रूदेशेन यानं विगृह्ययानम् । पाणिप्राहादिभिस्सन्धिं कृत्वा शत्र. देशेन यानं सन्धाययानम् । सामन्तैस्समेत्य यानं सम्भूययानम् । अन्योद्देशेन यात्राप्रसङ्गमुत्पाद्य अन्य प्रति यानं प्रसङ्गयानम् । शत्रूदेशेन यात्रां कृत्वा तमुपेक्ष्य तन्मित्रोद्देशेन यानमुपेक्ष्ययानमिति। पाइगुण्यमिति। सन्धिविग्रहयानासनद्वैधीभावसमाश्रयाः पूर्व पृथक्प्रतिपादिताः, इदानी द्वैगुण्यमतावलम्बनेन यानादीन सन्धि विग्रहयोरन्तर्भाग्य वदति द्वियोनी इति । सन्धिविग्रहो द्वियोनी प्रत्येकं तयोर्द्वयोः कारणभूतौ । तथाह कामन्दः “सन्धेश्च विग्रहस्यैतद्वैगुण्यमिति चक्षते" इति । ॥३०॥ " यानासने विग्रहस्य रूपं सन्धेः पदं द्वयम्" इति च । तत्र विजिगीषोरारे प्रति यात्रा यानं तयोर्मियः प्रतिबद्धशत्योः कालप्रतीक्षया तूष्णीमवस्थानमासनम् । दुर्बलस्य प्रबलयोविद्विषोः वाचिकमात्मनस्समर्पणं द्वैधीभावः । तथाह " बलिनोविद्विषोर्मध्ये वाचात्मानं समर्पयन् । द्वैधीभावेन वर्तेत काकाक्षीबदलक्षितः॥" S For Private And Personal Use Only
SR No.020792
Book TitleValmiki Ramayanam Part 02
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages691
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy