SearchBrowseAboutContactDonate
Page Preview
Page 604
Loading...
Download File
Download File
Page Text
________________ Shri Maharan Aradhana Kendra Acharya Shri Kailassagarsuri Gyarmandie बा.रा.भ. ॥२९॥ मङ्गलस्य प्रातर्दर्पणाद्यवलोकनस्य । अप्रयोगम् अननुष्ठानम् । मङ्गलाद्यप्रयोगमितिपाठे-अमङ्गलाचरणमित्यर्थः । सर्वतः प्रत्युत्थानं नीच , टी.अ.का. स्यानीचस्याप्यागमने प्रत्युत्थानमित्यर्थः । यदा सर्वदिगवस्थितशबूद्देशेन युगपदण्डयात्रामिति वा। एतांश्चतुर्दशेत्यनेन अन्येषामपि बहूनां सा दोषाणां विद्यमानत्वम्, तेषु सर्वेषूक्तानामवश्यहेयत्वं च ज्ञायते ॥ ६८॥ दशेत्यादि । दशवर्गादिकान् चुहा यथावदनुमन्यसे कच्चित् दशवर्गादिकान त्याज्यत्वेनोपादेयत्वेन च ज्ञात्वा यथावदनुतिष्ठसि कच्चिदिति वाक्यार्थः । पूर्वोक्तसङ्ग्रहोऽयमुपदेशः। दशवर्गस्तावत्-"मृगयाक्षो दिवास्वापः परि । मङ्गलस्याप्रयोगं च प्रत्युत्थानं च सर्वतः । कच्चित्तं वर्जयस्येतान् राजदोषांश्चतुर्दश ॥६८॥ दश पञ्च चतुर्वर्गान सप्तवर्ग च तत्त्वतः। अष्टवर्ग त्रिवर्ग च विद्यास्तिस्रश्च राघव ॥ ६९॥ वादः स्त्रियो मदः । तौर्यत्रिकं वृथाट्या च कामजो दशको गुणः॥” इति मनुनोक्तः । तौर्यत्रिकं नृत्यगीतवाद्यम् । वृथाट्या वृथापर्यटनम् ।। कामन्दकस्तु प्रकारान्तरेण लोभकोधालस्यासत्यवचनत्वप्रमादभीरुत्वास्थिरत्वमाढयानयावमन्तृत्वानि दशवर्ग इत्याशयेनाह-" लुब्धः कुरोऽलसो सत्यः प्रमादी भीरुरस्थिरः। मूढोऽनयोऽवमन्ता च सुखच्छेद्यो रिपुर्मतः॥” इति । पञ्चवर्गः पञ्च दुर्गाणि । तथाह मनुः-"औदकं पार्वतं वार्शमेरिणं धान्वनं। तथा । शस्तं प्रशस्तमतिभिर्दुर्ग दुर्गोपचिन्तकैः॥" इति । यद्वा पञ्चवर्गः पञ्चविधवैराणि । अत्रापि कामन्दक:-"सापत्नं वस्तुजं स्त्रीजं वाग्जातमपराध जम् । वैरप्रभेदनिपुणवैरं पञ्चविध स्मृतम् ॥” इति। चतुर्वर्गः सामदानभेददण्डाः । यथा कामन्दकीये “साम दानं च भेदश्च दण्डश्चेति चतुर्विधम्" इति। यद्वा चतुर्विधमित्राणि वा । यथाह कामन्दक:-"औरसं तन्तुसम्बन्धं तथा वंशक्रमागतम् । रक्षितं व्यसनेभ्यश्च मित्रं ज्ञेयं चतुर्विधम् ॥” इति । यद्वा विपरीतार्थदर्शिभिः । मङ्गलस्याप्रयोगम् अननुष्ठानम् । मङ्गलाद्यप्रयोगमिति च पाठः । प्रत्युत्थानं च सर्वतः सर्वदिगवस्थितशत्रुद्देशेन युगपदण्डयात्राम् ॥६६-६८॥ दशपञ्चेत्यादि । दशवर्गादिकं बुद्धा यथावदनुमन्यसे कश्चित् । दशवर्गादिकं त्याज्यत्वेनोपादेयत्वेन च ज्ञात्वा यथावदनुतिष्ठसि कच्चिदिति वाक्यार्थः । दश वर्गस्तावत्-लोभक्रोधालस्यासत्यममादमीरुत्वास्थिरत्वमूढत्वानयावमन्तृत्वानि । यद्वा मृगयायूतदिवास्वप्रपरिवादस्त्रीमदत्तगीतवाद्यवृधापर्यटनानि । अथ पञ्चवर्गः कामन्दकः “ सापत्नं वस्तुजं स्त्रीजं वाग्जातमपराधजम् । वैरप्रभेदनिपुणेर पञ्चविधं स्मृतम् ॥” इति । औदकपार्वतवारिणधान्वनानि वा। अथ चतुर्वर्गः-सामदानभेददण्डाः चतुर्विधमित्राणि वा । " औरसं तन्तुसम्बन्धं तथा वंशक्रमागतम् । रक्षितं व्यसनेभ्यश्च मित्रं ज्ञेयं चतुर्विधम् ॥” इति । ॥२९॥ अथ सप्तवर्ग:-" स्वाम्यमात्याश्च रा; च दुर्ग कोशो बलं सुहृत् । परस्परोपकारीदं राज्यं सप्ताङ्गमुच्यते । इति । अथाष्टवर्ग:-कृषिवाणिज्यदुर्गसेतुकुन्नर बन्धनखन्याकरकरादानशून्यनिवेशनानि । अब त्रिवर्ग:-असाध्यवस्तुयु समुद्यनः साध्यवस्तुष्वनुद्यमः शक्यवस्तुष्वकाले समुद्यमश्च । तथाह-"वस्तुष्वशक्येषु For Private And Personal Use Only
SR No.020792
Book TitleValmiki Ramayanam Part 02
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages691
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy