________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
बाधसे अर्थार्जनयोग्ये अपराह्ने धर्मार्जनं कृत्वा अर्थं न नाशयसि कच्चिदित्यर्थः । प्रीतिलोभेन सुखाभिलाषेण हेतुना । कामेन सायंकाल विहितेन कामेन उभौ वा न बाधसे कच्चित् । यद्वा अर्थेन हेतुना धर्म न बाघसे कञ्चित् धर्मे हित्वा अर्थ न गृह्णातीत्यर्थः । तथा धर्मेण हेतुना कुटुम्बनिर्वाहा द्यपेक्षितमर्थे न बाधसे । धर्मार्थावुभावपि प्रीतिलोभेन सुखेच्छया कामेन च हेतुना न बाघसे, गणिकादिसक्ताबुभयमपिहि नश्यति ॥ ६३ ॥
कच्चिदर्थं च धर्मे च कामं च जयतां वर । विभज्य काले कालज्ञ सर्वान् वरद सेवसे ॥ ६४ ॥ aa ब्राह्मणाः शर्म सर्वशास्त्रार्थकोविदाः । आशंसन्ते महाप्राज्ञ पौरजानपदैः सह ॥ ६५ ॥ नास्तिक्यमनृतं क्रोधं प्रमादं दीर्घसूत्रताम् | अदर्शनं ज्ञानवतामालस्यं पञ्चवृत्तिताम् ॥ ६६ ॥ एकचिन्तनमर्थानामनर्थज्ञैश्च मन्त्रणम् । निश्चितानामनारम्भं मन्त्रस्यापरिरक्षणम् ॥ ६७ ॥
Acharya Shri Kailassagarsuri Gyanmandir
| उक्तमर्थं सविशेषमाह-कञ्चिदिति । अर्थ च धर्मे च कामं च सर्वान् काले विभज्य सेवसे । प्रातदर्शनादिधर्मकालः, तदनन्तरम् आस्थाम्यां राज्यविचारणार्थ कालः, रात्रौ कामकाल इत्येवं विभज्य सेवस इत्यर्थः । जयतां वर । तेषां कालान्तरे प्रवृत्तिनिवर्तनसमर्थेत्यर्थः ॥ ६४ ॥ कञ्चित्त इति । शर्म सुखम् । | आशंसन्ते प्रार्थयन्ते ॥ ६५ ॥ नास्तिक्यमित्यादि । नास्ति परलोक इति मतिर्यस्य स नास्तिकः "अस्ति नास्ति दिष्टं मतिः " इति ठञ् । तस्य भावः नास्तिक्यम् । अनृतमसत्यवचनम्। क्रोधं मातापित्राचार्यत्राह्मणदुर्बलादिषु कृतापराधेष्वपि तद्विषयकं क्रोधम् । प्रमादम् अनवधानत्वम् । दीर्घसूत्रतां चिरक्रियत्वम् । “दीर्घसूत्रश्विरकियः " इत्यमरः । ज्ञानवतां सज्जनानाम्। अदर्शनं दर्शनाकरणम्, ज्ञानिनां दर्शनं हि निखिल श्रेयोमूलम् । आलस्यं ॐ मदकरवस्तुसेवाजनितं कार्यापटुकरणकत्वमित्यर्थः । पञ्चवृत्तितां पञ्चेन्द्रियपरवशताम् ॥ ६६ ॥ अर्थानामेकचिन्तनं राज्यकार्याणां मन्त्रयनादरेण स्वयमेक एव स्थित्वा पर्यालोचनम् । अनर्थज्ञैः विपरीतार्थदर्शिभिः ॥ ६७ ॥
ॐ कश्चित् धर्मार्जनयोग्यपूर्वाह्णे त्वर्थार्जनं कृत्वा धर्मान्न बाधसे धमार्जनं करोषि कथित धर्मेणार्यान न बाधसे कचित अर्थार्जनयोग्ये मध्याह्ने धर्मार्जनं कृत्वा अर्थात्र बाधसे कच्चिदित्यर्थः । प्रीतिलोभेन सुखाभिलाषेण हेतुना कामेन उभ धर्मार्थी न बाधसे कच्चिदित्यर्थः ॥ ६३-६५ ॥ नास्तिक्यमित्यादि । प्रमादम् अनवधानत्वम् । दीर्घसूत्रताम् चिरक्रियत्वम् । पञ्चवृत्तितां पञ्चेन्द्रियपरवशताम् अर्थानां प्रयोजनानाम् । एकचिन्तनम् एकेन चिन्तनम् । अनर्थज्ञः
For Private And Personal Use Only