________________
Shri Mahavir Jain Aradhana Kendra
जा.रा.भू. ॥२९८॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
लोभात् न वध्यते कच्चित् ॥५७॥ गृहीत इति । पृष्टः प्रश्नैः शोधितः। काले कालविशेषे । दृष्टः सकारणः चौर्यलब्धद्रव्यवत्तया वा दृष्टः । लोभात् मुषितं धनं तव दास्यामीति तद्दत्तधनलोभान्न मुच्यते कच्चित् ॥ ५८ ॥ व्यसन इति । आढयस्य दुर्गतस्य दरिद्रस्य च । व्यसने विवादरूपसङ्कटे प्राप्ते । अर्थ व्यवहारम् । “अर्थः स्याद्विषये मोक्षे शब्दवाच्ये प्रयोजने । व्यवहारे धने शास्त्रे वस्तु हेतुनिवृत्तिषु ॥” इति वैजयन्ती । विरागाः विगतधनरागाः । पश्यन्ति
गृहीतश्चैव पृष्टश्च काले दृष्टः सकारणः । कच्चिन्न मुच्यते चोरो धनलोभान्नरर्षभ ॥ ५८ ॥ व्यसने कच्चिदाढ्यस्य दुर्गतस्य च राघव । अर्थ विरागाः पश्यन्ति तवामात्या बहुश्रुताः ॥ ६९ ॥ यानि मिथ्याभिशस्तानां पतन्त्यस्त्राणि राघव । तानि पुत्रपशून घ्नन्ति प्रीत्यर्थमनुशासतः ॥ ६० ॥ कच्चिद् वृद्धांश्च बालांश्च वैद्यमुख्यांश्च राघव । दानेन मनसा वाचा त्रिभिरेतैर्बुभूषसे ॥ ६१ ॥ कच्चिदगुरूंश्च वृद्धांश्च तापसान देवतातिथीन् । चैत्यश्च सर्वान सिद्धार्थान ब्राह्मणांश्च नमस्यसि ॥ ६२ ॥ कच्चिदर्थेन वा धर्ममर्थं धर्मेण वा पुनः । उभौ वा प्रीतिलोभेन कामेन च न बाधसे ॥ ६३ ॥ परीक्षन्ते कञ्चित् ॥ ६९ ॥ यानीति । मिथ्याभिशस्तानां राज्ञाम् अविचार्यप्रवर्तितमिथ्याभियोगानां प्रजानां यानि अत्राणि अश्रूणि पतन्ति तानि प्रीत्यर्थमनुशासतः राज्ये न्यायान्यायावविचार्य्यं केवलभोगार्थं राज्यं कुर्वत इत्यर्थः ॥ ६०॥ कच्चिदृद्धानिति । दानेन अभिमतवस्तुप्रदानेन, मनसा खेड़ेन, वाचा सान्त्ववचनेन एतैस्त्रिभिर्बुभूषसे, प्रातुमिच्छसि वशीकर्त्तुमिच्छसि कचिदिति यावत् । भू प्राप्तावात्मनेपदी इति गणपाठे पठितत्वादात्मनेपदी ॥ ६१ ॥ कच्चिद्रूनिति । चैत्यान् देवतावासभूतचतुष्पथस्थमहावृक्षान् । सिद्धार्थान् निष्पन्नप्रयोजनान् । यागादिना लब्धामुष्मिक प्रयोजनानिति यावत् ॥ ६२ ॥ कच्चिदर्थेनेति । अर्थेन धर्मे न बाधसे कच्चित् । धर्मार्जनयोग्ये पूर्वाह्णे अर्थार्जनं कृत्वा धर्मे न बाधसे कञ्चिदित्यर्थः । धर्मेणार्थे न लोभात् न वध्यते न दण्डयते कच्चित्, धर्माधिकृतैरिति शेषः ॥ ५७ ॥ गृहीत इति । पृष्टः प्रश्नेन शोधितः काले द्रव्यापहरणकाले दृष्टः सकारणचौर्यलब्धद्रव्य सहितः ॥ ५८ ॥ व्यसन इति । आहचस्य दुर्गतस्य दरिद्रस्य च व्यसने निवातरूपसङ्कटे प्राप्ते अर्थ व्यवहारं विरागाः पश्यन्ति परीक्षन्ति कश्चित् ॥ ५९॥ यानीति । प्रीत्यर्थमनुशासतः भोगार्थ राज्यं कुर्वतः ॥ ६० ॥ दानेन अभिमतवस्तुप्रदानेन मनसा स्नेहेन वाचा सान्त्ववचनेन च त्रिभिरेतैः बुभूषसे कश्चित् । प्राप्तुमिच्छसि वशीकर्तुमिच्छसि कञ्चिदिति यावत् ॥ ६१ ॥ चैत्यान् देवतावास भूतचतुप्पयस्यमहावृक्षान् । सिद्धार्थान् निष्पन्नामुष्मिकप्रयोजनान् ॥ ६२ ॥ अर्थेन धर्मे न बाधसे
For Private And Personal Use Only
टी.अ.कां. स० [१००
॥२९८॥