________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
कर्मान्तिकाः, कर्मकरा इति यावत् । अविशङ्कया ते न प्रत्यक्षाः कञ्चित्, निर्भयतया त्वत्सन्निधिं प्राप्ता न कच्चिदित्यर्थः । अथवा ते सर्वे पुनः उत्सृष्टा न कञ्चित् दर्शनाप्रदानेन परित्यक्ता न कञ्चिदित्यर्थः । अविशङ्कया प्रवेशे अवज्ञादिकं सम्भदेव । दर्शनाभावे कार्यहानिः स्यात् अतः अत्र कर्मान्तिकविषये मध्यमेव कारणम् । अतिदर्शनादर्शनयोर्मध्यमरीत्याश्रयणमेवार्थसिद्धिकारणम् । अतिदर्शने दृप्तानां तेषां स्वामि
कच्चित् सर्वाणि दुर्गाणि धनधान्यायुधोदकैः । यन्त्रैश्च परिपूर्णानि तथा शिल्पिधनुर्द्धरैः ॥ ५४ ॥ आयस्ते विपुलः कच्चित् कच्चिदल्पतरो व्ययः । अपात्रेषु न ते कच्चित्कोशो गच्छति राघव ॥ ५५ ॥ देवतार्थे च पित्रर्थे ब्राह्मणाभ्यागतेषु च । योधेषु मित्रवर्गेषु कच्चिद्रच्छति ते व्ययः ॥ ५६ ॥ चिदा विशुद्धात्माऽऽक्षारितश्चोरकर्मणा । अष्टष्टः शास्त्रकुशलैर्न लोभाद्वध्यते शुचिः ॥ ५७ ॥
Acharya Shri Kailassagarsuri Gyanmandir
न्यनादरः स्यात् । अत्यदर्शने स्वकार्यविज्ञापनावसराला भात्किमनेनेति कोपः स्यात् राजकार्यहानिश्च तस्माद्यथोचित समये दर्शनप्रदानमेवोचित मिति भावः ॥ ५३॥ कञ्चित्सर्वाणीति । दुर्गाणि औदकपार्वतवारिणधान्यनानि । धनधान्यायुधोदकैः यन्त्रैः शिल्पिभिर्धनुर्द्धरैश्च परिपूर्णानि कञ्चित् । अत्र कामन्दक:-" औदकं पार्वतं वाक्षमेरिणं धान्वनं तथा । जलान्नायुधयन्त्राब्धं वीरयोधैरधिष्ठितम् । गुप्तिप्रधानमाचार्या दुर्गे समनुमेनिरे ॥ " इति | ॥५४॥ आय इति । आयः धनागमः कोशः सञ्चितधनम् । अपात्रेषु नटविटगायकेषु न गच्छति कञ्चित् । तेभ्योपरिमितं न देयमितिभावः ॥ ५५ ॥ धन व्ययस्योचितविषयमाह - देवतार्थ इत्यादिना ॥५६॥ कच्चिदार्य इति । विशुद्धात्मा विशुद्धस्वभावः। शुचिः करणत्रयशुद्धियुक्तः । आर्य्यः सज्जनः । यह च्छया चोरकर्मणा । आक्षारितः अभिशस्तः । "आक्षारितः क्षारितोभिशस्तः" इत्यमरः । शास्त्रकुशलैः अपृष्टः प्रश्न अशोधितः सन् । लोभादन सर्वे पुनरुत्सृष्टा न कच्चित् । निश्शङ्कया प्रवेशे अवज्ञादिकं सम्भवेत । दर्शनाभावे कार्यहानिः स्यात् । तत्र दर्शनादर्शनयोः मध्यमेव यथोचितसमय निरीक्षण प्रदान मेव कारणम्, प्रयोजनमित्यर्थः । एवं करोषि कञ्चिदित्यर्थः ॥ ५३ ॥ सर्वाणि दुर्गाणि औदक पार्वतवाक्षैरिणधान्वनानि । धनधान्यायुधोदकेर्यन्वेश्च शिल्पिधनुर्धरैश्च परिपूर्णानि कञ्चित् ॥ ५४ ॥ आय इति । आयो धनागमः, अपात्रषु नडावटगाय कादषु विषये । कोशः अर्थसमूहः ॥ ५५ ॥ ५६ ॥ विशुद्धात्मा शुद्धस्वभावः शुचिः करणत्रयशुद्धियुक्तः आर्यः सज्जनः । यदृच्छया चौरकर्मणा आक्षारितः आमेशस्तः शाखकुशलैरपृष्टः प्रश्नेनाशोधितस्सन लोभात्तदानीन्तनतदीयधन
For Private And Personal Use Only