SearchBrowseAboutContactDonate
Page Preview
Page 591
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पर इत्यर्थः । विधिज्ञः अग्निहोत्राद्यश्वमेधान्तसकलयागविधिज्ञः। मतिमान् ऊहापोहादिकल्पनचतुरः। ऋजुः प्रत्यक्षपरोक्षयोरेकरूपानुष्ठानवान् एकरूपकरणत्रय इतिवार्थः । पुरोहित इति शेषः। काले तत्तदोमकाले । वेदयते तुभ्यं ज्ञापयति कच्चित् ॥ १३॥ कच्चिद्देवानिति । अभिमन्यसे बहुमन्यसे। देवेषु बहुमतिर्यज्ञादिभिराराधनम्,पितृषु मातृषु च वचनकरणशुश्रूषणे । भृत्यानितिपाठे-तत्र बहुमतिःदानं । गुरुष्वनुवर्तनाभिमतकरणादि, कच्चिद्देवान् पितृन् मातृर्गुरून् पितृसमानपि । वृद्धांश्च तात वैद्यांश्च ब्राह्मणांश्चाभिमन्यसे ॥ १४ ॥ इष्वस्त्रवर सम्पन्नमर्थशास्त्रविशारदम् । सुधन्वानमुपाध्यायं कच्चित्त्वं तात मन्यसे ॥ १५॥ कच्चिदात्मसमाः शूराः श्रुतवन्तो जितेन्द्रियाः। कुलीनाश्चेङ्गितज्ञाश्च कृतास्ते तात मन्त्रिणः ॥ १६ ॥ मन्त्रो विजयमूलं हि राज्ञां भवति राघव । सुसंवृतो मन्त्रधरैरमात्यैः शास्त्रकोविदैः ॥ १७॥ कचिनिद्रावशं नैषीः कच्चित्काले प्रबुध्यसे । कच्चिच्चापररात्रेषु चिन्तयस्यर्थनैपुणम् ॥ १८॥ . पितृसमेषु ज्ञातिष्वर्थदानम्, वृद्धादिषु नमस्कारादि । वृद्धाः ज्ञानशीलवयोभिः । विद्या येषां सन्तीति वैद्याः विद्वांसः तान् । ब्राह्मणान् ब्रह्मविदः । यदा विद्यान् भिषजः तेषां बहुमतिश्च धनादिना परितोषणम् । ब्राह्मणानिति जातिमात्रपरो वा । तदा विद्याशीलादिकमपरीक्ष्य ब्राह्मणत्वमात्रेण यथायोग्यं । बहुमानं विवक्षितम् ॥ १४॥ इष्यत्रवरसम्पन्नमिति-इषवः अमन्त्रका बाणाः, अत्राणि समन्त्रकाः, वरशब्दः प्रत्येकमभिसम्बध्यते । अर्थशास्त्रं नीति शास्त्रम् । सुधन्वानं सुधन्वनामकम् उपाध्यायं धनुर्वेदाचार्यम् । मन्यसे बहुमन्यसे ॥ १५॥ आत्मसमाः विश्वसनीया इति यावत् । शूराः धीरा पाइति यावत् । श्रुतवन्तः नीतिशास्त्रज्ञाः । " श्रुतं शास्त्रावधृतयोः" इत्यमरः । जितेन्द्रियाः परैरलोभनीया इति यावत् । कुलीनाः प्रामाणिककुलो मात्पन्नाः। ते त्वया ॥१६॥ एतादृशमन्त्रिकरणे किं कारणम् । तत्राह-मन्त्र इति । मुसंवृतः सुतरांगुप्तः । शास्त्रकोविदः नीतिशास्त्रनिपुणेः । मन्त्रधरैः अमात्यैः। सुसंवृतो मन्त्रो हि विजयमूलं भवतीत्यन्वयः॥ १७ ॥ कञ्चिदिति । अर्थने पुणम् अर्थविषयसामथ्यमिति यावत् ॥ १८॥ अभिमन्यसे यथावद्वहुमन्यस इत्यर्थः ॥ १४ ॥ इविति । इण्वस्त्रवरसम्पन्नम् इषवः अमन्त्रकाः, अत्राणि समन्त्रकाणि, वरशब्दः प्रत्येकमभिसम्बध्यते । सुधन्वान सुधन्वनामानमुपाध्यायं धतुर्वेदाचार्यम् ॥ १५ ॥ १६ ॥ मन्त्र इति । सुसंवृतः सुतरीगुप्तः ॥ १७॥ १८ ॥ For Private And Personal Use Only
SR No.020792
Book TitleValmiki Ramayanam Part 02
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages691
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy