________________
Shri Mahavir Jain Aradhana Kendra
www.kabatirth.org
Acharya Shri Kailassagarsur Gyanmandir
षा.रा.भू. कच्चिदित्यादि । राज्यं भ्रष्टं न कच्चित्, प्रजानुरागो विद्यते कच्चिदित्यर्थः ॥ ७॥ कच्चिच्छुथूषस इति पितृशुश्रूषानादरेण किमागतोऽसीति पक्षान्तरम् टी.अ.का.
In८॥ अथ राज्ञः आरोग्यं पृच्छति-कच्चिद्दशरथ इति । कुशली अनामयः। राज्ञो व्याधिपरिभूतत्वात् तत्कथनाय किमागतोसीति पक्षान्तरम् । सत्य Naसङ्गरः सत्यप्रतिज्ञः। सत्यप्रतिज्ञा प्रेक्ष्य पश्चात्तापेन किमकुशलं प्राप्त इति हादों भावः। आहर्ता सम्पादयिता, कर्तेति यावत् । धर्मे निश्चयो यस्य स धर्म
कच्चिच्छुश्रूषसे तात पितरं सत्यविक्रमम् ॥ ८॥ कच्चिद्दशरथो राजा कुशली सत्यसङ्गरः। राजसूयाश्वमेधाना माहर्ता धर्मनिश्चयः॥ ९॥ स कच्चिद् ब्राह्मणो विद्वान् धर्मनित्यो महाद्युतिः। इक्ष्वाकूणामुपाध्यायो यथावत्तात पूज्यते ॥ १०॥सा तात कच्चित्कौसल्या सुमित्रा च प्रजावती । सुखिनी कच्चिदार्या च देवी नन्दति कैकयी ॥११॥ कच्चिद्विनयसम्पन्नः कुलपुत्रो बहुश्रुतः। अनसूयुरनुद्रष्टा सत्कृतस्ते पुरोहितः ॥ १२॥ कच्चिदग्निषु ते
युक्तो विधिज्ञो मतिमानृजुः । हुतं च होष्यमाणं च काले वेदयते सदा ॥ १३ ॥ निश्चयः ॥९॥ स कच्चिदिति । सः प्रसिद्धः। ब्राह्मणः ब्रह्मवित् । “तीते तद्वेद" इत्यण् । विद्वान् सर्वविद्यासु कुशलः । धर्मनित्यः ज्ञानानुगुण
मनुष्टातेत्यर्थः । महाद्युतिः तत्कृतब्रह्मवर्चसयुक्तः । इचाकूणामुपाध्यायः कुलगुरुः वसिष्ठः । यथावत् यथापूर्वम् । तातवत्संपूज्यते बहुमन्यते ॥१०॥ valसा तातेति । सा पूर्व दुःखिततया अनुभूता कौसल्पा सुखिनी कच्चित् । प्रजावती सुरजा: सुमित्रा च सुखिनी कचि दित्यन्वयः। आर्येति स्वमातुरपि बहु।
मानोक्तिः। कैकेयी नन्दति कच्चित्, राज्यलाभेनति शेषः॥७॥ कच्चिदिनयसम्पन्न इति । विनयसम्पन्नः निरहङ्कारः। कुलपुत्रः सत्कुलप्रसूतः बहुश्रुतमवधारणं यस्य स तथा । अनसूयुः छान्दस उप्रत्ययः । अनुद्रष्टा वसिष्ठोपदिष्टानामुपद्रष्टा । ते पुरोहित इत्यनेन रामस्य सुयज्ञ इव भरत स्यापि प्रातिस्विकः कश्चित्पुरोहितोऽस्तीति गम्यते । सुयज्ञ एवोच्यत इत्यप्याहुः । सत्कृतः पूजितः कचिदित्यन्वयः। अनेन पुरोहितः सदा सत्कर्तव्य इति शिक्षितम् । एवमुत्तरत्रापि योजनीयम् ॥ १२॥ "पितृव्यपुत्रे सापत्ने परनारीसुतेषु च । विवाहदानयज्ञादौ परिवेदो न दूषणम् ॥” इति स्मरणात्ला द्वैमातुरेष्वधिवेदनदोषाभावाद्यज्ञोऽपि कृत इत्यारोप्य पृच्छति-कच्चिदग्निष्विति । अथवा अनिषु अग्निकार्येषु युक्तः सावधानः नियुक्तो वा,अग्निशुश्रूषण २९२॥
आहर्ता कर्तेत्यर्थः । धर्मनिश्चयः धर्मबुद्धिरित्यर्थः ॥ ९॥ उपाध्यायो वसिष्ठः॥ १०॥११॥ कुलपुत्रः सत्कुलपस्तः । अनुद्रष्टा अनन्तद्रष्टा । ते पुरोहित इत्यनेन । IMवसिष्ठपुत्रस्यज्ञोऽभिप्रेतः ॥ १२ ॥ अग्निषु अग्निकार्येषु । युक्तो नियुक्तः ॥ १३॥
For Private And Personal Use Only