________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
जटिलं चीरवसनमिति सिद्धवदनूद्यते । कथमेतत्सङ्गच्छत इतिचेत् ? अत्राहुः-प्रतिज्ञाया रात्रौ कृतत्वात् परेशुभरद्वाजदर्शनानन्तरं जटावल्कले धृतवा नित्यविरोध इति । अयं च परिहारः पुरैवास्माभिः प्रतिपादितः ॥१॥ कथञ्चिदिति । कथंचिदभिविज्ञानत्वे हेतुद्वयम्-विवर्णवदनं कृशमिति ॥२॥३॥ अतिदुःखितस्य भरतस्य दुःखमपनेतुं प्रश्नव्याजेन धर्मानुपदिशति-क वित्यादि । ते पिता कन्वभूत् इति प्रश्नभङ्गया लोकान्तरं गतः किमिति
कथञ्चिदभिविज्ञाय विवर्णवदनं कृशम् । भ्रातरं भरतं रामः परिजग्राह बाहुना ॥२॥ आघ्राय रामस्तं मूर्ध्नि परिष्वज्य च राघवः । अङ्के भरतमारोप्य पर्यपृच्छत् समाहितः ॥ ३॥ व नु तेऽभूत् पिता तात यदरण्यं त्व मागतः । न हि त्वं जीवतस्तस्य वनमागन्तुमर्हसि ॥४॥ चिरस्य बत पश्यामि दूराद्भरतमागतम् । दुष्प्रतीक मरण्येऽस्मिन कि तात वनमागतः ॥५॥ कच्चिद्धारयते तात राजा यत्त्वमिहागतः । कच्चिन्न दीनः सहसा
राजा लोकान्तरं गतः ॥६॥ कच्चित् सौम्य न ते राज्यं भ्रष्टं बालस्य शाश्वतम् ॥ ७॥ सिद्धयति । तत्र हेतुः यदिति । तदुपपादयति नहीति । जीवतः जीवति । अनादरे षष्ठी । वनं नागन्तुमर्हसि, शुश्रूषणपरत्वादिति भावः । यद्वा तस्य त्वहिरहासहिष्णुत्वादिति रामस्य प्रश्नान्तरसम्बन्धदर्शनेन भरतो नोत्तरमुक्तवानिति बोध्यम् ॥ ४॥ चिरस्यति । बतेत्यद्भते । “खेदानुकम्पासन्तोष विस्मयामन्त्रणे बत" इत्यमरः । दूरात् दूरावस्थितकेकयनगरात् । दुष्प्रतीकं वैवण्यादिना दुइँयावयवम् । “अङ्गं प्रतीकोऽवयवः" इत्यमरः। किं किमर्थम् ॥५॥अस्मिन्नरण्ये तव किं प्रयोजनम् । प्रयोजनं देधा सम्भवति । राजनि जीवति तदाज्ञया मम दर्शनम्, राजनि मृते स्वबाल्येन बलवद्भि पहतराज्यत्वं वा । आद्यमाह-कचिदिति । धारयत इति,प्राणानिति शेषः। यस्मात्त्वमिहागतः तस्माद्राजा प्राणान् धारयते कञ्चित् ? राजा जीवतिचेत् त्वामत्रागच्छन्तं न सहेतेति भावः। कच्चिन धरत इति पाठान्तरम् । तदा देहं धारयितुं न शक्नोति कचिदित्यर्थः ॥६॥ द्वितीयं पक्षं प्रश्रद्वयेन दर्शयतिअतिदुखितस्य भरतस्य दुःखमपनतु प्रश्नव्याजेन रामो धर्ममुपदिशति-कन्वित्पादिना । तस्य जीवत इत्यनादरे षष्ठी ॥४॥ चिरस्येति । बतेत्यद्धते । दूरात दूरा वस्थितकेकयनगरात । दुष्प्रतीकं कार्यवेवण्यादिना दुज्ञेयावयवम् ॥५॥ कच्चिन धरते तात इति पाठः । न धरते कच्चित् देहं धारयितुं न शक्नोति कच्चित् ॥६-८॥
For Private And Personal Use Only