________________
Shri Mahavir Jain Aradhana Kendra
www.kabalirth.org
Acharya Shri Kailassagarsur Gyanmandie
शा.रा.भू.
दर्शनमात्रेण भरतो राज्यं पालयतीति कृत्वा राज्यनीतिं पृच्छति शततमे-जटिलमिति । यदा अयभगवान् रामः प्रश्नव्याजेन राज्यरक्षणनीतिप्रकारान् टी.अ.कां. लाशिक्षयति, पश्चाद्दशरथात्ययश्रवणभरतस्थण्डिलायनादिव्यापारेण तदुपदेशावकाशाभावात् । जटिलमित्यादि । जटिलं समीचीनमालिका दृष्टा चेदियं ........
भरतस्य केशाईत्येवं दशरथो वदति स एव जटां बहा तिष्ठतीति रामो विस्मयते। चीरवसनं श्लाघ्यचीनाम्बरं दृष्टं चेद्वालस्य भरतस्य वसनाईमिद मिति पिता वदति स एवेदानी वल्कलधारी तिष्ठति । प्राञ्जलिं पिता याचनापूर्वकं दिशति चेत् यःस्वीकरोति स सम्प्रति स्वाभिमतस्य स्वयम भवति ।
जटिलं चीरवसनं प्राञ्जलिं पतितं भुवि । ददर्श रामो दुर्दर्श युगान्ते भास्करं यथा ॥१॥ शपतितं भुवि अङ्के भरतमारोप्येति स्थितिर्न लब्धा । कुसुमशय्यापि कठिनीभवेदितिमत्ता उत्सङ्गे एव पित्रा शायितःससम्प्रति स्थले पतितः। ददर्श रामोप
दुर्दर्श दत्ता दृष्टिमनाकृष्य स्थितस्य रामस्य दर्शनायोग्यतया स्थितम् । यद्वा दुर्दशै जटिलत्वादिवेषेण स्नेहितजनस्य दुष्प्रेक्षम् । दुर्दर्श दुःखेन द्रष्टुं योग्यम्, IA कृच्छ्रेणाप्यभिज्ञातुमयोग्यमिति यावत् । युगान्ते भास्करं यथा न केवलं रामस्य सर्वस्यापि जनस्य दुर्दर्शतया स्थितमिति भावः । यद्धा युगान्ते भास्कर यथा युगान्ते भुवि पतितं भास्करमिव स्थितम्, अनेन पूर्ववन्महत्तरतेजोराहित्यं तादृशावस्थानईत्वं च व्यज्यते । (युगान्ते भुवि पतितं भास्करं यथे। त्यनेन महत्तरतेजोराशित्वं तादृशावस्थानहत्वं चोच्यते ।) ननु गङ्गातीरे 'अद्यप्रभृति भूमौ तु शयिष्येऽहं तृणेषु वा । फलमूलाशनो नित्यं जटाचीराणि धारयन् ' इति जटावल्कलधारणं प्रतिज्ञातम् । पुनर्नवतितमे भरद्वाजदर्शनसमये 'वसानो वाससी क्षौमे' इति क्षोमवस्त्रं धृतवानित्युच्यते । अब तु जटिलमिति । दुर्दर्श दुःखेन द्रष्टुं योग्यम् । नन्वष्टाशीतितमे सर्गे 'जटाचीराणि धारयन् ' इति भरतस्य जटाधारणादिकं श्रूयते । नवतितमे सर्गे तु 'वसानो वाससी क्षौमे' इति भरद्वाजदर्शनवेलायां क्षोमधारणं श्रूयते । अत्र जटिलं चीरवसनमिति जटावल्कलधारणं सिद्धबदनूद्यत इति चेत् ! उच्यते-प्रतिज्ञायाः रात्रौ गुहपुरे कृतत्वात् अपरेशुभरद्वाजदर्शनानन्तरं जटावल्कलधारणं करिष्यामीत्यभिप्रायेणागतः, तत्र भरद्वाजेनातिथ्येन निमन्त्रितत्वादवकाशाभावात भरद्वाजाश्रमनिर्गमनानन्तरं जटावल्कलधारणं कृतवानित्येतत्सर्वमुपपद्यत एवं ॥१-३॥ स-जटिलमिति । ननु" अपयति भूमौ तु शविष्ये " "जटाचीराणि धारयन् " इति गुहसानिधी भरतेन जटाधारणे प्रतिज्ञामानं कृतम् नतु तद्वारणम् । " सानो वाससी धीमे " इति भरवाजाव
॥२९॥ लोकनप्रकरणे तथोक्तेः । तस्मात्कयमिति चेत् । सत्यन; महायपुरतस्ससैम्पेन सपिचर्या न प्रदर्शनीति तापूर्वमकृत्वा अनन्तरं जटादिदर्शने रामरूपा भवेदिति तवृतमानिति कात्र कथन्ता । भुवि पतितमित्युमवत्रा वेति । दुर्दर्श द्रष्टुमयोग्यम् ॥१॥
For Private And Personal Use Only