________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
यस्येति । यथोद्दिष्टेः यथाविहितः । यथादृष्टैरिति पाठे-शास्त्रेष्विति शेषः । युक्तः योग्यः ॥३४-३८॥ वक्तुमशक्यत्वे हेतुमाह-वाष्पापिहितकण्ठ इत्या दिना । बाष्पापिहितकण्ठः बाष्पनिरुद्धकण्ठः ॥३९॥ १०॥ तत इति । राजसुतौ रामलक्ष्मणौ ॥ ११॥ तानिति । तान् तादृशसुखयुक्तान । समाग!
यस्य यज्ञैर्यथोद्दिष्टैर्युक्तो धर्मस्य सञ्चयः । शरीरक्लेशसम्भूतं स धर्म परिमार्गते ॥ ३४॥ चन्दनेन महाहण यस्याङ्गमुपसेवितम् । मलेन तस्याङ्गमिदं कथमार्यस्य सेव्यते ॥ ३५ ॥ मन्निमित्तमिदं दुःखं प्राप्तो रामः सुखो चितः। धिग्जीवितं नृशंसस्य मम लोकविगर्हितम् ॥ ३६॥ इत्येवं विलपन दीनः प्रस्विन्नमुखपङ्कजः । पादा वप्राप्य रामस्य पपात भरतो रुदन ॥३७॥ दुःखाभितप्तो भरतो राजपुत्रो महाबलः। उक्कार्येति सकृद्दीनं पुनर्नोवाच किञ्चन ॥ ३८॥ बाष्पापिहितकण्ठश्च प्रेक्ष्य राम यशस्विनम् । आर्येत्येवाथ संक्रुश्य व्याहतु नाशकत्तदा ॥३९॥ शत्रुघ्नश्चापि रामस्य ववन्दे चरणौ रुदन् । तावुभौ स समालिङ्गय रामश्चाश्रूण्यवर्तयत् ॥४०॥ ततः सुमन्त्रेण गुहेन चैव समीयतू राजसुतावरण्ये । दिवाकरश्चैव निशाकरश्च यथाम्बरे शुक्रबृहस्पतिभ्याम् ॥४१॥ तान् पार्थिवान वारणयूथपाभान समागतांस्तत्र महत्यरण्ये । वनौकसस्तेऽपि समीक्ष्य सर्वेप्यश्रूण्यमुश्चन प्रविहाय हर्षम् ॥४२॥
इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे एकोनशततमः सर्गः ॥ ९९ ॥ शतान् सङ्गतान् ॥ ४२ ॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने एकोनशततमः सर्गः ॥ ९९ ॥ करोतीत्यर्थः ॥ ३२ ॥ ३३ ॥ यस्येति । यथादिष्टैर्यथाविहितैर्यज्ञैर्धर्मस्य सञ्चयो यस्य युक्तः स रामः शरीरलेशसम्भूतं धर्म परिमार्गते करोतीति सम्बन्धः । यथा दृष्टैरिति पाठे शास्त्रेष्विति शेषः ॥ ३४-४०॥ राजसुतौ रामलक्ष्मणौ । समागतान सङ्गतान ॥४१॥ ४२ ॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्व दीपिकाख्यायो अयोध्याकाण्डव्याख्यायामेकोनशततमः सर्गः ॥ ९९ ॥
For Private And Personal Use Only