________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
rap
टी.अ.का स. ९९
वा.रा.भ. लादिधारणेप्यपरावर्तमानं रामणीयकमुच्यते । आसीनं किञ्चिदासनमास्थायात्मानं घ्यायन्तम् । अभितः पावकोपमं तादृशतपोविशेषेण समन्तात्तेजः। Reपरिवृतम् । यद्वा "नीलतोयदमध्यस्था विद्युल्लेखेव भास्वरा" इत्युक्तरीत्या विद्युल्लेखामध्यवर्तिनीलतोयदमिव स्थितमित्यर्थः। यद्वा विरोधिनामनभिभवनीय
मित्यर्थः। यद्वा उटजे राममासीनम् अयोध्यास्थितसमाजापेक्षया अल्पतरापीयं सभा महती जाता। कुतः ? अभितः पावकोपमं तत्सभायां समीपस्थस्य
सिंहस्कन्धं महाबाहुं पुण्डरीकनिभेक्षणम् । पृथिव्याः सागरान्ताया भर्तारं धर्मचारिणम् ॥२७॥ उपविष्टं महाबाह ब्रह्माणमिव शाश्वतम् । स्थण्डिले दर्भसंस्तीणे सीतया लक्ष्मणेन च ॥ २८ ॥ तं दृष्ट्वा भरतः श्रीमान दुःखशोक परिप्लुतः। अभ्यधावत धर्मात्मा भरतः कैकयीसुतः ॥ २९ ॥ दृष्ट्वैव विललापातॊ बाष्पसन्दिग्धया गिरा । अशक्नुवन धारयितुं धैर्यादचनमब्रवीत् ॥३०॥ यः संसदि प्रकृतिभिर्भवेद्युक्त उपासितुम् । वन्यैर्मृगैरुपासीनः सोऽयमास्ते ममाग्रजः ॥ ३१॥ वासोभिर्बहुसाहौर्यो महात्मा पुरोचितः । मृगाजिने सोऽयमिह प्रवस्ते धर्म माचरन् ॥ ३२ ॥ अधारयद्यो विविधाश्चित्राः सुमनसस्तदा । सोऽयं जटाभारमिमं वहते राघवः कथम् ॥ ३३॥ धातुरपि यत्र समीपमागन्तुं न शक्यते, न हि ज्वलत्यनले कस्यापि समीपमागन्तुं शक्यम् । यद्धा उटजे राममित्यत्र रामं श्यामम् । अधोरामौ सावित्रा वित्यत्र तथाप्रयोगात्। यदा पावकोपमं दुर्दर्शमित्यर्थः। अतएव पूर्वश्लोके निरीक्ष्य समूहर्तमित्युक्तम्॥२६॥२७॥ब्रह्मापेक्षयास्य वैलक्षण्यमुच्यते शाश्वत मिति । स्थण्डिले भूमौ ॥२८॥ तमिति । द्वितीयो भरतशब्द उत्तरश्लोकेन सम्बध्यते ॥२९॥ दृष्ट्वेति । दृष्ट्वैव दर्शनमात्रेणेत्यर्थः। आर्तः खिन्नः। तामार्ति |धारयितुमशक्नुवन् । बाष्पसन्दिग्धया शोकोष्मणा सन्दिग्धवर्णया गिरा उपलक्षितः ॥३०॥ य इति । संसदि सभायाम् । युक्तः अहः ॥३१॥ वासोभिरिति । बहुसाहौः बहुसहस्रमूल्यैः। उचितः,अलङ्कर्तुमिति शेषः। षष्ठ्यर्थे तृतीया वा। मृगाजिने मृगचर्मणी। प्रवस्ते आच्छादयति ॥३२॥३३॥
यमित्यर्थः ॥ २६ ॥ २७ ॥ स्थण्डिले भूमौ ॥ २८॥ तं दृष्ट्रेति । द्वितीयो भरतशब्दः उत्तरलोकेन सम्बध्यते ॥२९-३१॥ वासोभिरिति । बहुसाहौः बहसहन। मूल्यैः वासोभिरुचितः अलङ्कर्तुमिति शेषः । सोऽयं मृगाजिने मृगचर्मणी । द्वितीयाद्विवचनमेतत् । प्रवस्ते आच्छादयति । मृगाजिनेरिति पाठे मृगाजिनेराच्छादन
सबसहना ॥२९॥
For Private And Personal Use Only