SearchBrowseAboutContactDonate
Page Preview
Page 585
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kabatirth.org Acharya Shri Kalassagarsun Gyarmander स्थिरांशैः। “सारो बले स्थिरांशे च" इत्यमरः ॥२०॥ भोगवती सर्पनगरी ॥२१॥ महारजतवासोभ्यां स्वर्णमयकोशाभ्याम् । रुक्मबिन्दुविचित्राभ्यां शोभाविशेषाय मध्येमध्ये शिल्पिनिर्मितकनकबिन्दुविचित्राभ्याम् । (आत्मबिन्दुविचित्राभ्यां व्याघ्रचर्मकृततया स्वाभाविकनानावर्णबिन्दुविचित्रा भ्याम्।) चर्मभ्यां खेटकाभ्याम् । “खेटकं फलकं चर्म" इति हलायुधः॥२२॥ गोधाङ्गुलिये गोधा ज्याघातवारणम् । अङ्गुलित्रम् अङ्गुलित्राणम् । उपलक्षणे अर्करश्मिप्रतीकाशैङ्खरैस्तुणीगतैः शरैः । शोभितां दीप्तवदनैः सभोंगवतीमिव ॥२१॥ महारजतवासोभ्या मसिभ्यां च विराजिताम् । रुक्मबिन्दुविचित्राभ्यां चर्मभ्यां चापिशोभिताम् ॥ २२॥ गोधाङ्कलित्रैरासक्तैश्चित्रैः काञ्चनभूषितैः । अरिसङ्घरनाधृष्यां मृगैः सिंहगुहामिव ॥२३॥ प्रागुदक्प्रवणां वेदिं विशालां दीप्तपावकाम् । ददर्श भरतस्तत्र पुण्यां रामनिवेशने ॥२४॥ निरीक्ष्य स मुहूर्त तु ददर्श भरतो गुरुम् । उटजे राममासीनं जटामण्डल धारिणम् ॥ २५॥ तं तु कृष्णाजिनधरं चीरवल्कलवाससम् । ददर्श राममासीनमभितः पावकोपमम् ॥२६॥ तृतीया। शोभितामित्यनुकर्षों वा ।अनाधृष्याम् अप्रधृष्याम् ॥२३॥ प्रागुदक्प्रवणां प्रागुदग्भागे क्रमनिनाम् । “प्रवणो दक्षिणे प्रह्वे क्रमनिम्ने चतुष्पथे" इति वैजयन्ती । तत्र रामनिवेशने, पूर्वोक्तपर्णशालायामित्यर्थः ॥२४॥ निरीक्ष्येति । जटामण्डलधारित्ववेलक्षण्येन निश्चयाथै मुहूर्त निरीक्ष्य तेजो विशेषेण सामान्येन स्वगुरुं ज्ञातवानित्यर्थः। अस्मिन् श्लोके उत्तरार्धे जटामण्डलधारिणमित्यत्र णकारो गायच्याः सप्तमाक्षरः। पदसहस्रं शोका गताः॥२५॥ विशेषतो दर्शनमाह-तं वित्यादिना । महाहवसनोपेतस्य इदानी ततो वैलक्षण्यमाह तं विति । तदेव वैलक्षण्यं दर्शयति कृष्णाजिनधरमिति । कृष्णा जिनधरम् उत्तरीयतया कृष्णाजिनधरम् । अधराम्बरत्वेन चीखल्कलवाससम् । कृष्णाजिनघरं चीरवल्कलवाससं पूर्वस्माच्छोभाविशेषयुक्तम् । रामं वल्क। सम्पाद्यन्त इति भारसाधनानि ॥ २०॥२१॥ महारजतवासोभ्यां सुवर्णनिर्मितकोशाभ्याम् । चर्मभ्या फलकाभ्याम् । गोधा ज्याधातवारणम् अङ्गुलिवमङ्गुलिवाणम् अनाधृष्याम् अप्रधृष्याम् । आसक्तैः तत्तत्साधनेषु स्थापितेरित्यर्थः ॥ २२ ॥ २३ ॥ प्रागुदमवणाम् ईशान्यभागनिनामित्यर्थः। गायत्र्या णीति सप्तमाक्षरम् उटजे राममित्यस्य श्लोकस्य षोडशाक्षरेण सङ्ग्रहाति ॥ २४ ॥ २५ ॥ तं त्वित्यादि । विशेषणान्तराभिधानार्थ ददशैंति पुनर्वचनम् । अभितः पावकोपमं परितः पावक For Private And Personal Use Only
SR No.020792
Book TitleValmiki Ramayanam Part 02
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages691
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy