________________
ShMisharan Aradhana Kendra
www.khatirth.org
Acharya Shri Kalassagarsun Gyarmandie
तत्वान्न तदा धूमनिविडसम्भव इति भावः। अनेन रामस्याझ्याधानाभावाच्छौतानिरत्र नोच्यते किन्तु धार्यः स्मातांनिः। यदि हितस्य त्रेताग्निः स्यात तदा “रामः कमलपत्राक्षः पुरोधसमथाब्रवीत् । अग्निहोत्रं व्रजत्वग्रे सर्पिज्वलितपावकम् ॥” इति चरमयात्रायामग्रिहोत्रपुरस्कारश्रवणानियात्राया मपि तथा दृश्येत । अनुसरन्तोपि हि पोवृद्धाःसामय एव समागता इत्युच्यन्ते । किञ्च "दीक्षितं व्रतसम्पन्न वराजिनधरं शुचिम् । कुरङ्गशृङ्गपाणिं 1 च पश्यन्ती त्वां भजाम्यहम् ॥” इति सीतामनोरथश्रवणाद्राज्याभिषेकात्पूर्वन यज्ञोऽनुष्ठित इति गम्यते । ततोऽयमग्निह्याग्निरेव । न च तस्याप्यानयनं
अत्राहं पुरुषव्याघ्र गुरुसंस्कारकारिणम् । आर्य द्रक्ष्यामि संहृष्टो महर्षिमिव राघवम् ॥ १३॥ न पूर्वमुक्तमिति वाच्यम् तस्यात्मसमारोपणेनानेतुं शक्यत्वात् । न च आत्मसमारोपणेपि सायम्प्रातहोमः कार्यः, स तु नोक्तः। प्रत्युत तमसातीरे गङ्गाकूले वृक्षमूले भरद्वाजाश्रमे यमुनातटे च सन्ध्यावन्दनमेवोक्तम् । अत्र च श्लोके तापसवनशब्दाभ्यां बने तापसानां शीतनिवारणप्रकाशकरणकन्दमूलादि पचनसाधनतया साह्य एवाग्निरुच्यत इति वक्तुं शक्यते । आधातुं सङ्ग्रहीतुमित्यर्थः । अतोऽयमग्निः पचनाद्यर्थ एव नतु धार्यः स्मातानिरितिचेत् । न "प्रायुदक्प्रवणां वेदि विशाला दीप्तपावकाम्" इति वक्ष्यमाणविरोधात् । न ह्यसंस्कृतानेर्वेदिसम्बन्धः प्रसिद्धः। प्रागुदक्प्रवणत्वादिवेदिलक्षणं चोच्यमानं वेदिं तत्स्थमनि च संस्कृताववगमयति । यद्येवं कथं तर्हि सायंप्रातोमावचनमिति चेत् । न कं स्वच्छन्दगामिना मुनिना असत्यामिच्छायामसति च फले पुनःपुनर्वक्तव्यम् । वक्ष्यति तु उपरिष्टात् सुतीक्ष्णाश्रमे-“अथ तेऽग्निं सुरांश्चैव वैदेही रामलक्ष्मणौ । काल्यं विधिवदभ्यर्च्य तपस्विशरणे वने । उदयन्तं दिनकरं दृष्ट्वा विगतकल्मषाः । सुतीक्ष्णमभिगम्यैवमिदं वचनमब्रुवन् ॥” इति । अत्रानुदितहोमपक्षेण उदयात्पूर्वमग्निकार्यवचनादग्निमित्ये कवचनाच्च औपासनं सम्यगुक्तमिति । एवमेव सर्वत्र द्रष्टव्यमिति । अत्रचाग्निकार्य रामस्य साक्षात्प्रधानकर्तृत्वेन सीतायाः सहभावेन प्रणयनादिना च लक्ष्मणस्य समिदादिसंपादनरूपसहकारित्वेन चान्वय इति ज्ञेयम् । तपस्विशरणे वन इत्यनेनातिसङ्कटदेशेपि यथावदनुष्ठानश्रद्धाविशेष उच्यते । अत श्चतुर्दशसु वनवाससंवत्सरेषु सीताहरणपर्यन्तं रामस्य चित्रकूटादिपञ्चवटयन्तेषु प्रदेशेषु यत्र माससंवत्सरादिवासेन चिरकालावस्थानं तत्र बहिःस्मात नित्यानिधारणम् । अन्यत्रात्मनि समिधि वा समारोप्य होमकालेऽवरोप्य सायंप्रातरौपासनमिति दिक् । अस्मिन् श्लोके च तापसा यमाधातुमिच्छन्ती त्यस्यार्थश्च वर्णितः । तेन च रामाश्रमचिह्नत्ववत्पावनत्वमप्युक्तं भवति ॥ १२॥ अत्रेति। गुरुसंस्कारकारिणं गुरुसंस्कारः श्रेष्ठसंस्कारः, मन्त्रोप
For Private And Personal Use Only