SearchBrowseAboutContactDonate
Page Preview
Page 579
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandin महाकुलप्रसूता वैदेही महाभागा महाभाग्यवता । कृतकृत्या कृताथां च । तत्फलं तद्धेतुं चाह भर्तारमिति । पृथिव्या भर्तारमित्यन्वयः ॥ ११ ॥ सुभग इति । असौ चित्रकूटः । सुभगः भाग्यशाली । गिरिराजोपमश्च गिरिराजोपमः हिमवत्पर्वतसदृशः । नन्दने नन्दयतीति नन्दनं चैत्ररथम् । सुभग इत्यादि सुभगः प्रदेशान्तरेभ्योऽतिरमणीयः । सुभगः सर्वेषामुद्देश्यतमः । अत्र हेतुं यस्मिन्नित्युत्तरार्धे वक्ष्यति । चित्रकूटः स्वभावतोपि रमणीयः । असौ गिरिः कृतकृत्या महाभागा वैदेही जनकात्मजा । भर्तारं सागरान्तायाः पृथिव्या याऽनुगच्छति ॥ ११॥ सुभगश्चित्रकूटोऽसौ गिरिराजोपमो गिरिः । यस्मिन् वसति काकुत्स्थः कुबेर इव नन्दने ॥ १२ ॥ कृतकार्यमिदं दुर्गं वनं व्यालनिषेवितम् । यदध्यास्ते महातेजा रामः शस्त्रभृतां वरः ॥ १३॥ एवमुक्ता महातेजा भरतः पुरुषर्षभः । पद्भ्यामेव महाबाहुः प्रविवेश महद्वनम् ॥ १४ ॥ स तानि द्रुमजालानि जातानि गिरिसानुषु । पुष्पिताग्राणि मध्येन जगाम वदतां वरः ॥ १५ ॥ अयोध्यां परित्यज्यापि रामेण आदरणीयः । यद्वा गिरिराजोपमः गिरिराजोऽत्र श्री निवाससान्निध्यस्थानभूतो वेङ्कटाचलः । तत्र उभयत्र हेतुमाह यस्मि त्रिति । काकुत्स्थः अयोध्याधिपतिः स्वदेशं विहाय अपरिचिते यस्मिन् वसति । तत्रानुरूपं दृष्टान्तमाह कुबेर इति । चैत्ररथवासयोग्यः कुबेरः इन्द्रोद्याने नन्दन इव । यद्वा स्वगृहं विहाय स्वगृहोद्याने विहरमाणो वैश्रवण इव वसतीत्यर्थः । ' इक्ष्वाकूणामियं भूमिः सशैलवनकानना' इत्युक्तेश्वित्रकूटोपि ॐ रामविषयो हि, नन्दनोपमानेन रामस्य चित्रकूटे भोग्यताप्रकर्ष उच्यते । काकुत्स्थः ककुत्स्थ कुलोद्भवः । यथा स्वकुलमकृतार्थयत् तथा स्ववासस्थल मप्यकृतार्थयदिति भावः । यद्वा कुबेर इव नन्दने भूवाचकेन कुशब्देन जगदुपलक्ष्यते, बेरं शरीरं कुबेरो जगच्छरीरः परमात्मा । नन्दन इव वैकुण्ठ ॐ नन्दनवन इव ॥ १२ ॥ कृतेति । कृतकार्य कृतार्थम् । दुर्गे दुष्प्रवेशम् । व्यालनिषेवितं दुष्टसर्पाश्रितम् । कृतकृत्यत्वे हेतुः यदित्यादि । वनं दुर्गमिति स्थलस्वभावेन वासानत्वमुक्तम् । महातेजा इत्यादिना रामवैभवापेक्षयापि वासानईत्वमुच्यते ॥ १३ ॥ एवमिति । महातेजा इत्यादिना पद्धयां गमनानईत्वमुच्यते ॥ १४ ॥ स इति । द्रुमजालानि मध्येन द्रुमजालानां मध्येनेत्यर्थः । मध्यशब्दस्य दिग्वाचित्वात् " एनपां द्वितीया " इति द्वितीया । वदतां वर इत्यनेन रामसन्निधौ वक्तव्यविशेषं चिन्तयन्त्रेव जगामेत्युक्तम् ॥ १५ ॥ पर्म निर्मलचन्द्रसदृशम् ॥ १० ॥ ११ ॥ सुभग इति । गिरिराजोपमः हिमवत्सदृशः । नन्दने कुबेरोद्याने ॥ १२ ॥ कृतकार्य कृतार्थ स्थावरत्वमोचकरामपादाग्ररजो प्रस्ततया कृतार्थमित्यर्थः ॥ १३ ॥ १४ ॥ द्रुमजालानि मध्येन द्रुमजालानां मध्येन ॥ १५ ॥ For Private And Personal Use Only
SR No.020792
Book TitleValmiki Ramayanam Part 02
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages691
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy