SearchBrowseAboutContactDonate
Page Preview
Page 578
Loading...
Download File
Download File
Page Text
________________ Shul Maa Jain Aradhana Kendra www.kcbatirth.org Acharya Shri Kalassagarsur Gyanmandir ला.रा.भू. दी.अ.का. १२८६॥ स०९ अथ भरतस्य रामप्राप्तिरष्टनवतितमे सर्गे-निवेश्येत्यादिना। गुरुवर्तकं गुरुवचनानुवर्तकम् ॥ १॥२॥ क्षिप्रमिति।लुब्धैः व्याधैः॥३॥४॥अमात्यैरिति।। अमात्यैः सह पौरेः सह । गुरुभिः द्विजातिभिश्च परिवृतः पद्भया सर्व वनं चरिष्यामीति सम्बन्धः॥५॥ यावदिति । शान्तिः दुःखशान्तिः मङ्गलं वा । निवेश्य सेनां तु विभुः पद्भ्यां पादवतां वरः । अभिगन्तुं स काकुत्स्थमियेष गुरुवर्तकम् ॥ १॥ निविष्टमात्रे सैन्ये तु यथोद्देशं विनीतवत् । भरतो भ्रातरं वाक्यं शत्रुघ्नमिदमब्रवीत् ॥२॥ क्षिप्रं वनमिदं सौम्य नरसङ्घः समन्ततः । लुब्धैश्च सहितरेभिस्त्वमन्वेषितुमर्हसि ॥३॥ गुहो ज्ञातिसहस्रेण शरचापासिधारिणा । समन्वेषतु काकुत्स्था वस्मिन् परिवृतःस्वयम् ॥४॥ अमात्यैः सह पोरैश्च गुरुभिश्च द्विजातिभिः । वनं सर्व चरिष्यामि पद्भया परिवृतः स्वयम् ॥ ५॥ यावन्न रामं द्रक्ष्यामि लक्ष्मणं वा महाबलम् । वैदेही वा महाभागां न मे शान्तिर्भविष्यति ॥६॥ यावन्न चन्द्रसङ्काशं द्रक्ष्यामि शुभमाननम् । भ्रातुः पद्मपलाशाक्षं न मे शान्लिभविष्यति ॥७॥ यावन्न चरणी भ्रातुः पार्थिवव्यञ्जनान्वितौ । शिरसा धारयिष्यामि न मे शान्तिर्भविष्यति ॥८॥ यावन्न राज्ये राज्याहः पितृपैतामहे स्थितः। अभिषेकजलक्किन्नो न मे शान्तिर्भविष्यति ॥९॥ सिद्धार्थः खलु सौमित्रिर्यश्चन्द्रविमलो पमम् । मुखं पश्यति रामस्य राजीवाक्षं महाद्युति ॥ १०॥ "शान्तिःप्रशममङ्गले" इति वैजयन्ती ॥ ६॥७॥ यावदिति । पार्थिवव्यञ्जनान्वितो ववजारविन्दाङ्कशसुधाकलशादिमहाराजलक्षणयुक्तौ चरणौ । यावन्न शिरसा धारयिष्यामि तावत्पर्यन्तं मे शान्तिन भविष्यति । यदा रामः स्वयोग्यसिंहासनाधिराज्यमोलिं धृत्वा मम योग्यं श्रीपादाख्यमोलिं ददाति तदा मे सकलदुःखशान्तिर्भविष्यतीति भावः ॥ ८॥ ९ ॥ सिद्धार्थ इति । चन्द्रविमलोपमं निर्मलचन्द्रसदृशम् ॥ १० ॥ गुरुवर्तकम् गुरुवचनानुष्ठानपरम् ॥१-४॥ सहपारेरमात्यैः पौरसहितैरमात्यैश्च सह । द्विजातिभिर्गुरुभिः द्विजातिभिस्सह वर्तमानः गुरुभिश्च परिवृतः पद्भया सर्व चरिष्यामीति सम्बन्धः ॥ ५॥ शान्तिः दुःखप्रशमः ॥६॥७॥ पार्थिवव्यञ्जनान्वितौ बचाकुशध्वजारविन्दसुधाकलशादिमहाराजलक्षणान्वितौ ॥८॥९॥ चन्द्रविमलो HALU२८६॥ For Private And Personal Use Only
SR No.020792
Book TitleValmiki Ramayanam Part 02
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages691
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy