________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सुयज्ञाय दत्तो मातुलाद्यन्पशत्रुअय इत्यर्थः ॥ २५ ॥ लोकसत्कृतं लोकोत्तरमित्यर्थः । इह पितरि विषये संशयो भवतीह मे इति राघवः प्रत्युवाचेति | पूर्वेणान्वयः ॥ २६ ॥ वृक्षायादिति । मद्वचः भरतविषये शान्तो भवेति मत्सूचितं वचः । प्रथममर्धसुत्तरार्धेन योजनीयम् ॥ २७ ॥ अवतीर्येति । समिति परसैन्यं जयतीति समितिञ्जयः । " संज्ञायां भृतृवृजिधारिसहितपिदमः” इत्यत्र योगविभागेन खच् मुमागमश्च । सन्नद इति यावत् । पार्श्वतः भ्रात न तु पश्यामि तच्छत्रं पाण्डरं लोकसत्कृतम् । पितुर्दिव्यं महाबाहो संशयो भवतीह मे ॥ २६ ॥ वृक्षाग्रादवरोह त्वं कुरु लक्ष्मण मद्वचः । इतीव रामो धर्मात्मा सौमित्रिं तमुवाच ह ॥ २७ ॥ अवतीर्य्य तु सालाग्रात्तस्मात्स समितिञ्जयः । लक्ष्मणः प्राञ्जलिर्भूत्वा तस्थौ रामस्य पार्श्वतः ॥ २८ ॥ भरतेनापि सन्दिष्टा सम्मर्दों न भवेदिति । समन्तात्तस्य शैलस्य सेना वासमकल्पयत् ॥ २९ ॥ अध्यर्द्धमिक्ष्वाकुचमूर्योजनं पर्वतस्य सा । पार्श्वे न्यविश दावृत्य गजवाजिरथाकुला ॥ ३० ॥ सा चित्रकूटे भरतेन सेना धर्मं पुरस्कृत्य विधूय दर्पम् । प्रसादनार्थे रघुनन्दनस्य विराजते नीतिमता प्रणीता ॥ ३१ ॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमद योध्याकाण्डे सप्तनवतितमः सर्गः ॥ ९७ ॥
स्थाने भयशङ्कयेति भावः ॥ २८॥ भरतेनेति । सम्मर्दः रामाश्रमस्य पीड़ा न भवेदिति भरतेन सन्दिष्टा आज्ञता । सेना तस्य शैलस्य समन्तात् नतु | तदाश्रमसमीपे ॥ २९ ॥ अध्यर्द्धमिति । अधिकमर्षे यस्मिन् तत् अध्यर्षे योजनम्, सार्धयोजनमित्यर्थः । पर्वतस्य पार्श्वे आवृत्त्य म्यविशत् मण्डला कारण स्थिता ॥ ३० ॥ सेति । चित्रकूटे चित्रकूटसमीपे । नीतिमता सेनयोपरोधे रामस्य प्रसादो न स्यादिति नीतिज्ञेन भरतेन । धर्मे पुरस्कृत्य विनीतवेषेण राजाभिगन्तव्य इतिधर्ममनुसृत्य । दर्पं विधूय स्थितेन रघुनन्दनस्य प्रसादनार्थे प्रणीत आनीता सा सेना विराजते भाति स्म ॥ ३१ ॥ इति श्रीगोविन्दराविरचिते श्रीरामायणभूषणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने सप्तनवतितमः सर्गः ॥ ९७ ॥
प्रवृद्धः । तातस्य शत्रुञ्जयो नाग इत्यनेन सुयज्ञाय रामेण दत्तादन्य इत्यर्थः ॥२५-२८॥ सन्दिष्टा आज्ञप्ता ॥ २९ ॥ ३० ॥ सेति । धर्मं पुरस्कृत्य दर्प विधूय स्थितेनेति | शेषः । प्रणीता आनीता ॥ ३१ ॥ इति श्रीमहेश्वर तीर्थविरचितायां श्रीरामायणतस्वदीपिकारूपाय अयोध्याकाण्डव्याख्यायां सप्तनवतितमः सर्गः ॥ ९७ ॥
For Private And Personal Use Only