________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandin
॥१८५॥
बा.रा.भू. करणं द्रष्टव्यम् ॥ १७ ॥ उच्यमान इति । भरतः अस्मे राज्यं प्रयच्छेति मया उच्यमानोऽपि अहृदयमुक्तोऽपि तस्वतः बाढमिति वक्ष्यत्येव तथा दास्यामीति वक्ष्यत्येवेत्यर्थः । एवकारेण तस्य पुनर्न्निवृत्त्यभाव उच्यते ॥ १८ ॥ तथेति । तस्य रामस्य हिते रतः नतु स्वार्थपरः अतएव मङ्गलाशासन परत्वात् अस्थाने भयशङ्कया तथोक्तवानिति गम्यते । गात्राणि अवयवान्' प्रविवेशेष लज्जातिशयेनात्यन्तसङ्कुचितगात्रोऽभूदित्यर्थः ॥ १९ ॥ तद्वाक्य उच्यमानोऽपि भरतो मया लक्ष्मण तत्त्वतः । राज्यमस्मै प्रयच्छेति वाढमित्येव वक्ष्यति ॥ १८ ॥ तथोक्तो धर्म शीलेन भ्रात्रा तस्य हिते रतः । लक्ष्मणः प्रविवेशेष स्वानि गात्राणि लज्जया ॥ १९ ॥ तद्वाक्यं लक्ष्मणः श्रुत्वा व्रीडितः प्रत्युवाच ह । त्वां मन्ये द्रष्टुमायातः पिता दशरथः स्वयम् ॥ २० ॥ व्रीडितं लक्ष्मणं दृष्ट्वा राघवः प्रत्युवाच ह। एष मन्ये महाबाहुरिहास्मान् द्रष्टुमागतः ॥ २१ ॥ अथवा नौ ध्रुवं मन्ये मन्यमानः सुखोचितौ । वनवासमतु ध्याय गृहाय प्रतिनेष्यति ॥ २२ ॥ इमां वाप्येष वैदेही मत्यन्तसुखसेविनीम् । पिता मे राघवः श्रीमान् वनादादाय यास्यति ॥ २३ ॥ एतौ तौ सम्प्रकाशेते गोत्रवन्तौ मनोरमौ । वायुवेगसमौ वीर जवनौ तुरगोत्तमौ ॥ २४ ॥ स एष सुमहाकायः कम्पते वाहिनीमुखे । नागः शत्रुअयो नाम वृद्धस्तातस्य धीमतः ॥ २५ ॥
मिति । व्रीडया प्रसङ्गान्तरं प्रस्तौति त्वामिति । लोके स्वोक्तिभङ्गेन त्रीडितः पुरुषः प्रस्तावान्तरं हि वदति, आयात इति मन्य इत्यन्वयः ॥ २० ॥ भावज्ञो रामोपि औचित्येन लक्ष्मणकृतप्रस्तावं व्रीडाशमनाय प्रपञ्चयामासेत्याह- त्रीडितमिति । तदेवोच्यते एष इत्यादिना ॥ २१ ॥ नाविति द्विवचनं प्राधा न्यात् । मन्यमानः स्मरन् । वनवासं वनवासक्केशम् । अनुध्याय अनुचिन्त्य ॥२२॥ इमामिति । अत्यन्तेत्यनेन तम्माजनयने हेतुरुक्तः ॥ २३ ॥ गोत्रवन्तौ प्रशस्तनामानौ । यद्वा प्रशस्त कुलप्रसूतौ “गोत्रं नानि कुलेपि च" इति वैजयन्ती । वायुवेगसमौ वेगेन वायुसमावित्यर्थः। तुरगोत्तमौ राजोपवाह्यौ ॥ २४ ॥ स एष इति । कम्पते "कपि चलने" इति धातुः । मत्तगजस्वभावोऽयम् । वृद्धः उन्नतः । धीमतः गजपरिपालनज्ञस्य तातस्य । नागः शतञ्जयः नतु मया सम्बन्धः ॥ १७ ॥ १८ ॥ गात्राणि अवयवान् प्रविवेश लज्जातिशयादत्यन्तसङ्कुचितोऽभूदित्यर्थः ॥ १९ ॥ श्रीडातिशयेन प्रसङ्गान्तरं मस्तौति त्वां मन्य इति ॥ २० ॥ भाषशो रामोप्यौचित्येन लक्ष्मणकृत प्रस्तावमेव प्रपञ्चयति एष इत्यादिना ।। २१-१३ | गोत्रवन्तौ प्रशस्तनामानौ मशस्तकुलमती वा ॥२४॥ वृद्धः
For Private And Personal Use Only
टी.अ. क
स० ९७
॥ २८५॥