________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
रूपम् । नेहेन मद्विषयप्रीत्या ।आक्रान्तहृदयः तत्परवश इत्यर्थः । शोकेन मदिवासजनितदुःखेन । आकुलितेन्द्रियः व्याकुलहृदयः। अन्यथा मद्विरोधि तया नागतः॥९-११॥ अम्बामिति । रुष्य संरुष्य ॥१२॥ प्राप्तकालमिति । एषः भरतः अस्मान् द्रष्टुमिच्छतीतियत् एतत् प्राप्तकालं कालोचित मित्यर्थः ॥ १३ ।। विप्रियमिति । ते तुभ्यं भरतेन कदानु कदाचित् विप्रियं कृतपूर्व किम् ईदृशं भयं वा त्वदुक्तसदृशं भयजनकवाक्यं वा कृतपूर्व स्नेहेनाक्रान्तहृदयः शोकेनाकुलितेन्द्रियः। द्रष्टमभ्यागतो ह्येष भरतो नान्यथा गतः ॥११॥ अम्बां च कैकयी रुष्य परुषं चाप्रियं वदन् । प्रसाद्य पितरं श्रीमान राज्यं मे दातुमागतः ॥ १२ ॥ प्राप्तकालं यदेषोऽस्मान् भरतो द्रष्ट मिच्छति । अस्मासु मनसाप्येष नाप्रियं किञ्चिदाचरेत् ॥१३॥ विप्रियं कृतपूर्वं ते भरतेन कदा नु किम् । ईदृशं वा भयंतेऽद्य भरतं योऽत्र शङ्कसे ॥ १४॥ नहि ते निष्ठुरं वाच्यो भरतो नाप्रियं वचः। अहं ह्यप्रियमुक्तः स्यां भरतस्याप्रिये कृते ॥ १५॥ कथं नु पुत्राः पितरं हन्युः कस्याश्चिदापदि । भ्राता वा भ्रातरं हन्यात सौमित्रे प्राण
मात्मनः ॥१६॥ यदि राज्यस्य हेतोस्त्वमिमां वाचं प्रभाषसे । वक्ष्यामि भरतं दृष्ट्वा राज्यमस्मै प्रदीयताम् ॥१७॥ किम् उक्तपूर्व किम् ? यस्त्वमद्य अत्रार्थे अत्र स्थाने वा भरतं शङ्कस इति योजना ॥ १४॥ न हीति । त इति "कृत्यानां कर्तरि वा" इति षष्ठी । ते त्वया भरतः नितुरम् अप्रियं च वचःन वाच्यः। भरतस्य अप्रिये अप्रियवचने कृते उक्ते सति अहं हि अहमेवाप्रियमुक्तः स्यामिति सम्बन्धः । स्वाश्रितविषये कृतापचारः स्वस्मिन्नेव कृत इति भगवदभिप्रायोऽनेन गम्यते ॥ १५॥ पूर्व दशरथो वध्यतामित्युक्तम्, इदानीं भरतो वध्यत इति। इत उपरि तूष्णीमवस्थाने कार्यहानिर्भविष्यतीति भयात् ता रोद्री बुद्धिं नियम्य निवर्तयति-कथं वित्यादिना । प्राणं प्राणभूतम् ॥ १६॥ यदीति यदि राज्यस्य हेतोः त्वम् इमां भरतहिंसारूपां वाचं प्रभाषसे तर्हि वक्ष्यामि भरतं दृष्ट्वा राज्यमस्मै प्रदीयताम् । प्रदीयतामित्यनन्तरमिति एष भरतः अस्मान द्रष्टुमिच्छतीति यत् एतत्माप्तकालं कालोचितमित्यर्थः ॥१३॥ तेन भरतेन कदातु कदाचित् विप्रियं कृतपूर्व किं ते ईशं भय वा त्वदुक्तसदृशं भयजनकवाक्यं वा कृतपूर्वम् उक्तपूर्व किम् ? यस्त्वमद्य अत्रार्य अत्र स्थाने वा अत्र भरतं शङ्कस इति सम्बन्धः ॥ १४ ॥ निष्ठरं परुष अतएवाप्रियं यथा तथा न वाच्यः । भरतस्याप्रिये अप्रियवचने कृते उक्ते सति अहं हि अहमेव अप्रियमुक्तः स्यामिति सम्बन्धः ॥१५॥ प्राणं प्राणभूतम् ॥ १६ ॥ प्रदीयतामिति वक्ष्यामीति
For Private And Personal Use Only