________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandin
॥२८४॥
वा. रा. भू. गृहीत्वा स्वयमागतः तदा किमस्माकं युद्धोद्योगेनेति भावः ॥ २ ॥ तत्र युक्तिमाह-पितुरिति । सापवादेन पित्रा भरताय दत्तं राज्यं रामस्तं हत्वा गृहीत • वानित्येवंरूपेणापवादेन युक्तम् ॥ ३ ॥ युक्तयन्तरमाह-यदिति । बान्धवादीनां क्षये नाशे लब्धं यद्धनं तन्न गृहीयाम्, नेच्छेयमित्यर्थः । विषकृतान् पितुः सत्यं प्रतिश्रुत्य हत्वा भरतमागतम् । किं करिष्यामि राज्येन सापवादेन लक्ष्मण ॥ ३ ॥ यद्द्रव्यं बान्धवानां वा मित्राणां वा क्षये भवेत्। नाहं तत् प्रतिगृह्णीयां भक्षान् विषकृतानिव ॥ ४॥ धर्ममर्थं च कामं च पृथिवीं चापि लक्ष्मण । इच्छामि भवतामर्थे एतत् प्रतिशृणोमि ते ॥ ५ ॥ भ्रातृणां सङ्ग्रहार्थं च सुखार्थं चापि लक्ष्मण । राज्य मप्यहमिच्छामि सत्येनायुधमालभे ॥ ६ ॥ नेयं मम मही सौम्य दुर्लभा सागराम्बरा । नहीच्छेयमधर्मेण शक्रत्व मपि लक्ष्मण ॥ ७ ॥ यद्विना भरतं त्वां च शत्रुघ्नं चापि मानद । भवेन्मम सुखं किञ्चिद्भस्म तत् कुरुतां शिखी ॥८॥ मन्येऽहमागतोऽयोध्यां भरतो भ्रातृवत्सलः । मम प्राणात् प्रियतरः कुलधर्ममनुस्मरन् ॥ ९ ॥ श्रुत्वा प्रवाजितं मां हि जटावल्कलधारिणम् । जानक्या सहितं वीर त्वया च पुरुषर्षभ ॥ १० ॥
विषमिश्रद्रव्यकृतान्। भक्षान् अपूपादीनिव ॥ ४ ॥ धर्ममिति । अर्थं पृथिवीभिन्नं रत्नादिकम् । भवतां भातृणामर्थे भवन्निमित्तमित्यर्थः । एतत् उक्तरूपं प्रतिशृणोमि नातिवर्त्त इत्यर्थः ॥ ५ ॥ भ्रातृणामिति । सङ्ग्रहार्थं धनसञ्चयार्थम् । सुखार्थं तत्सुखार्थम्, तत्तदभिमतवस्तुप्रदानेन तत्प्रीत्यर्थमित्यर्थः । अपिना तदृद्धिः समुच्चीयते । राज्यमपि बहुच्छिद्रत्वेन अपरिग्राह्यतया ममानिष्टमपि । आलभे स्पृशामि, स्पृष्ट्वा शप इत्यर्थः । सत्येनेति मदुक्तं यथा सत्यं भवति तथा आयुधं स्पृशामीत्यर्थः ॥ ६ ॥ नेति । नेच्छेयम् इमामिति शेषः ॥ ७ ॥ यदिति । शिखी अग्निः । भरतादिसुखाननुगुणं यत् सुखं तदनि भस्मीकुरुतां न तन्मम ग्राह्यमित्यर्थः ॥ ८ ॥ एवं लक्ष्मण चित्तानुसारेण परिहृत्य वस्तुतत्त्वमाह-मन्य इत्यादिश्लोकत्रयमेकान्वयम् । द्रष्टुमभ्यागतो ह्येष भरतो नान्यथागत इति मन्ये इत्यन्वयः । अयोध्यामागतः, मातुलगृहादिति शेषः । भ्रातृवत्सलः भ्रातृषु वत्सलः स्नेही। कुलधर्मे ज्येष्ठस्य राज्यपरिपालन रणोद्युक्तम् ॥ १४ ॥ एतत्प्रतिशृणोमि एतदुक्तार्थजातमुदिश्य प्रतिज्ञां करोमीत्यर्थः ॥ ५ ॥ उक्तार्थमेव शपथकरणेन द्रढयति-भ्रातृणामिति । सङ्ग्रहार्थं सम्पक ग्रहणार्थं तत्तदभिमतवस्तुप्रदानेन समुद्धरणार्थम् अत एव तेषां सुखार्थं चेति यावत् ॥ ६-८ ॥ अयोध्यामागतः मातुलगृहादिति शेषः ॥ ९-१२ ॥
For Private And Personal Use Only
टी.अ.कां. स० ९०
॥ २८४॥