________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyarmandie
इत्यमरः ॥२७॥ अद्यति । सयत स्ताम्भतम् । भसत्कारं तिस्कारम् । मोक्ष्यामि तत्कायकरिष्यामीत्यर्थः, शरम्याजेन मोक्ष्यामीतिवार्थः । कक्षेषु शुष्कगुल्मेषु। मानदेत्पनेन मानं माच्छेत्सीरित्युच्यते॥२८॥ अद्येतदिति। शवशरीराणि भिन्दन् एतत् काननं शोणितोक्षितं करिष्य इत्यन्वयः॥२९॥३०॥
अद्येम संयतं क्रोधमसत्कारं च मानद । मोक्ष्यामि शत्रुसैन्येषु कक्षेष्विव हुताशनम् ॥ २८॥ अवैतच्चित्रकूटस्य काननं निशितैः शरैः । भिन्दन शत्रुशरीराणि करिष्ये शोणितोक्षितम् ॥२९॥ शरैर्निभिन्नहृदयान कुञ्जरांस्तुरगा स्तथा। श्वापदाः परिकर्षन्तु नरांश्च निहतान मया ॥३०॥ शराणां धनुषश्चाहमनृणोऽस्मि महामृधे । ससैन्यं भरतं हत्वाभविष्यामि न संशयः ॥ ३१॥ इत्यार्षे श्रीरामायणे. श्रीमदयोध्याकाण्डे षण्णवतितमः सर्गः ॥ ९६ ॥ सुसंरब्धं तु सौमित्रिं लक्ष्मणं क्रोधमूछितम् । रामस्तु परिसान्त्व्याथ वचनं चेदमब्रवीत् ॥ १॥ किमत्र धनुषा
कार्यमसिना वा सचर्मणा। महेष्वासे महाप्राज्ञे भरते स्वयमागते ॥ २॥ शराणामिति । अहं यतः पूर्व तत्रतत्र युद्ध शराणां धनुषश्च विषये अनृणःऋणरहितः शत्रुकलेवराहारदानेन परिहतऋणः, स्वयं युद्धे काप्यपराजितः शवजयेकशील इत्यर्थः। अतः अस्मीत्यहमर्थेऽव्ययम् । अस्मि अहं महामृधेभाविन्यपि युद्धे ससैन्य भरतं हत्वा अनृण इत्यनुकर्षः, अनृणो भविष्यामी त्यन्वयः। वनवासात्पूर्वमपि शम्बरसुतजयादिप्रतिपादनात् तत्र लक्ष्मणस्यापि सहभावावश्यंभावाद्युद्धसम्भवः । अस्मीति क्रियापदं वा । तदा अभव मित्यर्थः । यतः अनृणोऽभवमित्यन्वयः। त्वयापि मद्रीय ज्ञातपूर्वमित्यर्थः ॥३१॥ इति श्रीगो. श्रीरा०पीता. अयोपण्णवतितमः सर्गः ॥९॥ अथ कुपितपरिसान्त्वनं सप्तनवतितमे-सुसंरब्धमित्यादि । पूर्व सुसंरब्धं सुतरां प्रीतम् । “संरम्भः प्रणयपिच" इत्यमरः । अद्य तु तद्वैलक्षण्येन क्रोध मूछितम् । यद्वा क्रोधमूच्छितत्वादेव सुसंरब्धं कोधकार्ययुद्धोन्मुख्ययुक्तम् । तत्र हेतुः सपत्नीपुत्रत्वमित्याह सौमित्रिमिति । यद्धा सुमित्रापुत्रत्व स्मारणपूर्वकमुक्तवानिति द्योत्यते । रामस्तु इदं वचनं रामादन्येवतुमशक्यमिति भावः॥१॥ किमिति । अत्र इदानीं परिदृष्टे महेष्वासे उचितविषयशर - सन्धातरि । तत्र हेतुः महाप्राज्ञ इति । स्वयं पुरुषप्रेरणंविना आगते भरते विपये धनुरादिभिः किं कार्यम् ? न किमपीत्यर्थः। महाप्राज्ञो भरतोपि यदि धनु संयतं स्तम्भितम् ॥ २८-३० ॥ शराणामिति । शरादीनामामित्रमथनार्थत्वादितिभावः ॥३१॥ इति श्रीमहेश्वरतीर्थ अयोध्या० षण्णवतितमः सर्गः ॥१६॥ सुसंरब्ध
For Private And Personal Use Only