________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
स इति । पुष्पितमित्यनेन विरलपत्रतयाऽनावारकत्वमुक्तम् । सर्वा दिशः प्रेक्षमाणः सामान्येन प्रेक्षमाणः सन् पूर्वी दिशमुदैवत सविशेषमलोकयत् । ॥११॥ तत्र हेतुदर्शनमाह-उदङ्मुख इत्यादिना । यत्तैः सन्नद्धैः॥ १२॥ तामिति । स्थध्वज विभूपिता रथबद्धध्वजैरलंकृताम् ॥ १३॥ अग्निमिति । आनं संशमयतु, अन्यथा धूमानुसारेणागच्छेत्सेनेति भावः । सज्यं ज्यया मोा सहितं कुरुष्व, शरांश्च कवचं तथा शरांश्च कवचंच, गृहाणेति शेषः ।
स लक्ष्मणः संत्वरितः सालमारुह्य पुष्पितम् । प्रेक्षमाणो दिशः सर्वाः पूर्वी दिशमुदैक्षत ॥११॥ उदङ्मुखः प्रेक्ष माणो ददर्श महतीं चमूम् । रथाश्वगजसम्बाधां यत्तैर्युक्तां पदातिभिः ॥१२॥ तामश्वगजसम्पूर्णा स्थध्वजविभूषि ताम् । शशंस सेनां रामाय वचनं चेदमबीत् ॥ १३॥ अग्निं संशमयत्वार्यः सीता च भजतां गुहाम् । सज्यं कुरुष्व चापं च शरांश्च कवचं तथा ॥ १४ ॥ तं रामः पुरुषव्याघ्रो लक्ष्मणं प्रत्युवाच ह । अङ्गावेक्षस्व सौमित्रे कस्येमा मन्यसे चमूम् ॥ १५॥ एवमुक्तस्तु रामेण लक्ष्मणो वाक्यमब्रवीत् । दिधक्षन्निव तां सेना रुषितः पावको यथा ॥१६॥ सम्पन्नं राज्यमिच्छंस्तु व्यक्तं प्राप्याभिषेचनम् । आवां हन्तुं समभ्येति कैकेय्या भरतः सुतः॥१७॥
एष वै सुमहान् श्रीमान विटपी सम्प्रकाशते । विराजत्युद्गतस्कन्धः कोविदारध्वजो रथे ॥ १८॥ यद्वा कुरुष्वेत्यनुषङ्गः। करोते कियासामान्यवाचित्वात् औचित्येन शरान गृहाण कवचं धारयेत्यर्थः॥१४॥ तमिति। तम् एवं समीक्ष्य बदन्तम् । पुरुष व्याघ्रः समीक्ष्यकारीति भावः । अङ्गेति सम्बोधने । अवेक्षस्व ध्वजचिह्नन सम्यगालोकय । इमां त्वया दृष्टां चमूंकस्येयमिति मन्यसे, वदेति शेषः ॥१५॥ एवमिति । रुषितः कुपितः। कतरिक्तः। पावकोयथा वह्नितुल्यः ॥१६॥ सम्पन्नमिति । कैकेय्याः सुतः तत्सुतत्वेन क्रूरप्रकृतिः भरतः अभि षेचनं प्राप्य कैकेयीवरानुरोधेनाभिषिक्तः तावताप्यतृप्तः । सम्पन्नं समृद्धम्, निष्कण्टकमिति यावत् । राज्यमिच्छन् सन् तदंशभागिनी आवां हन्तुं| समभ्येति ॥ १७॥ भरतागमने किं चिह्नमित्यत्राह-एष इति । विटपी ध्वजचिह्नीभूतो वृक्षः । प्रकाशते स्पष्टं दृश्यते । तमेव विशिनष्टि विराजतीति । सर्या दिशः प्रेक्षमाणः सर्वदिक्मेक्षणाखेतोः । हेत्वर्थे शानन् । पूर्वी दिशमुदक्षतेति सम्बन्धः ॥ ११ ॥ यतैः सन्नद्धः पदातिभिर्युक्ताम् ॥ १२ ॥ १३ ॥ शरान गृहाणेति शेषः । कवचं धारयेति शेषः ॥ १४-१६ ॥ सम्पन्नं सर्वसमृद्रियुक्तम् ॥ १७ ॥ विटपी भरतध्वजस्य लक्षणभूतः ध्वजे लिखितकोविदारः। एतदेव विशयत्युत्तरार्धेन । उद्गतस्कन्धः ध्वजस्योद्गतस्कन्धत्वं लिखितवृक्षद्वारा ॥ १८॥
For Private And Personal Use Only