________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
हे वैदेहि । स्वया सह त्रिषवणं त्रिसन्ध्यम् । उपस्पृशन् स्नानं कुर्वन् । मधुमूलफलाशनोहमयोध्याये न स्पृहये राज्याय च न स्पृहये । " स्पृहे रीप्सितः " इति सम्प्रदानसंज्ञा ॥ १७ ॥ इमामिति । इमां मन्दाकिनीम् । मृगयूथशालिनीम्, मृगयूथ लोलितामिति च पाठः । गजसिंहवानरैः, आश्रममहित्रा शान्तवैरैरित्यर्थः । निपीततोयामिति पापरत्वमुक्तम् । पुष्पधरैः वृक्षैः अनेनोद्दीपनत्वमुक्तम् । उपस्पृशन्नित्यनुषज्यते । यः अगल sit रम्यां मृगयूथशालिनीं निपीततोयां गजसिंहवानरैः । सुपुष्पितैः पुष्पधरैरलंकृतां न सोऽस्ति यः स्यादगत कुमः सुखी ॥ १८ ॥ इतीव रामो बहुसङ्गतं वचः प्रियासहायः सरितं प्रति ब्रुवन् । चचार रम्यं नयनाञ्जनप्रभं स चित्रकूट रघुवंशवर्द्धनः ॥ १९ ॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे पञ्चनवतितमः सर्गः ९५ ॥ af तथा दर्शयित्वा तु मैथिलीं गिरिनिम्नगाम् । निषसाद गिरिप्रस्थे सीतां मांसेन छन्दयन् ॥ १ ॥ इदं मेध्यमिदं स्वादु निष्टप्तमिदममिना । एवमास्ते स धर्मात्मा सीतया सह राघवः ॥ २ ॥ तथा तत्रासतस्तस्य भरतस्यो पयायिनः । सैन्यरेणुश्च शब्दश्च प्रादुरास्तां नभस्स्ष्टौ ॥ ३ ॥
क्रमः सुली न स्यात् स नास्ति सर्वोप्यत्र स्नास्वा जतङमो भवतीत्यर्थः ॥ १८ ॥ इतीति । प्रियासहायो रामः सरितं प्रति सरिद्विषये सङ्गतं प्रसक्तानु प्रसक्तं बहुषको हवन् सन् । नयनाञ्जनप्रभं नयनयोग्याञ्जनकान्तिम्, तद्वन्नीलमित्यर्थः। चित्रकूटं चचार, चित्रकूटप्रान्ते चचारेत्यर्थः । एतेन पुनः पुरवास निस्पृहस्वद्योतनाय रामस्य वनवासनिर्भरत्वयुक्तम् ॥ १९ ॥ इति श्रीगो० श्रीरा० पीता० अयोध्याकाण्डव्याख्याने पञ्चनवतितमः सर्गः ॥ ९५ ॥ एवं प्रासङ्गिकमुक्त्वा प्रकृतमनुसरति - तामित्यादिना । गिरिनिगां गिरिनदीम् । मांसेन छन्दयन्त्र वशीकुर्वन् । “वशाभिप्राययोइछन्दः " इति वैज यम्ती ॥ १ ॥ वशीकरणप्रकारमाह- इदमित्यादिना । इदं मांसं मेध्यं शुद्धम्, निर्मलमिति यावत् । स्वादु रसवत् । निष्टप्तं प्रततम् । इदंशब्देन स्वभुक्त शेषमिति गम्यते । एवमास्ते एवं हवन्नास्त इत्यर्थः ॥ २ ॥ तथेति । तथा उक्तरीत्या । तत्र गिरिप्रस्थे । तस्य आसतः तस्मिन्नासीने सति। सैन्यरेणुः शब्दः पार्थे चतुर्थी ॥ १७॥ इमामिति । उपस्पृशन्नित्यनुषज्यते इमां नदीम् उपस्पृशन स्नानं कुर्वन् यो अगतक्लमः खी न स्यात् स नास्तीति सम्बन्धः । पुष्पभरैः वृक्षैः ॥ १८ ॥ नयमाञ्जनमभ्रं नयनयोग्यमञ्जनं नयनाञ्जनं तत्प्रभम् ॥ १९ ॥ इति श्रीमहेश्वर० अयो० पञ्चनवतितमः सर्गः ॥ ९५ ॥ तां नदीम् । छन्दयन् वशीकुर्वन् ॥ १ ॥ इदं वन्निति शेषः ॥ २ ॥ तत्र गिरिमस्थे । तस्य आसतः तस्मिन् रामे आसीने सति । उपयायिनः समीपे आगच्छतः भरतस्य । सैन्यरेणुः सैन्यपादोत्थितरेणुः । शब्दः
For Private And Personal Use Only