________________
Shri Mahavir Jain Aradhana Kendra
बा.रा.भू.
1192211
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पोष्लूयमानान् भृशं पुनःपुनर्वा लवमानान् अपरान् पुष्पसञ्चयश्च त्वं पश्य । प्रियहृतार्धगलितवसना नारीव लक्ष्यत इति व्यङ्ग्यम् ॥ १० ॥ ७ तानिति । वल्गुवचसः रत्यह्नान कालिकरम्पवचसः शुभाः गिरः विकूजन्तः रतिकालिकस्वरान् कुर्वन्तः । रथाङ्गायनाः चक्राह्वयाः द्विजाश्चक्रवाकाः तान् पुष्पसञ्चयान् । अधिरोहन्ति शयनमारोहन्तीत्यर्थः । अनेन चकवाकरतिर्दर्शिता ॥ ११ ॥ दर्शनमिति । हे शोभने निर्मत्सरे । चित्रकूटस्य तांश्चातिवल्गुवचसो रथाङ्गाह्वयना द्विजाः । अधिरोहन्ति कल्याणि विकूजन्तः शुभा गिरः ॥ ११ ॥ दर्शनं चित्र कूटस्य मन्दाकिन्याश्च शोभने । अधिकं पुरवासाच मन्ये च तव दर्शनात् ॥ १२ ॥ विधूतकलुषैः सिखैस्तपोदम शमान्वितैः । नित्यविक्षोभितजला विगाहस्व मया सह ॥ १३ ॥ सखीवच्च विगाहस्व सीते मन्दाकिनीं नदीम् । कमलान्यवमज्जन्ती पुष्कराणि च भामिनि ॥ १४ ॥ त्वं पौरजनवालानयोध्यामिव पर्वतम् । मन्यस्व वनिते नित्यं सरयूवदिमां नदीम् ॥ १५ ॥ लक्ष्मणश्चापि धर्मात्मा मन्निदेशे व्यवस्थितः । त्वं चानुकूला वैदेहि प्रीतिं जनयथो मम ॥ १६ ॥ उपस्टर्शस्त्रिषवणं मधुमूलफलाशनः । नायोध्यायै न राज्याय स्पृहयेऽद्य त्वया सह ॥ १७ ॥ दर्शनं पुरवासाधिकं चित्रकूटवासः पुरवासाद्यधिकसुखावहः, एकान्तभोगस्थानस्यादिति भावः । मन्दाकिन्या दर्शनं तव दर्शनादप्यधिक सुखकरम्, उद्दीपनत्वादिति भावः ॥ १२ ॥ विधूत कलुवैरिति । तपोदमशमान्वितैः मतएव विधूतकलुपैः निष्पापैः सिद्धैः सिद्धसाधननिष्ठैः नित्यविक्षोभितजलां सदा तत्स्नानेन तत्पादरेणुधम्यां मन्दाकिनीं मया सह विगाहस्व मामप्रधानीकृत्य जलकीडारसमनुभवेत्यर्थः । नित्यविक्षोभित जलामित्यनेन जलक्रीडोपकरण कुसुम्भादिसामग्री दर्शिता ॥ १३ ॥ सखीवदिति । सख्या यथा सलिमवगाहसे तथा मया सह विगाहस्त्र । कमलानि रक्तान्नानि । पुष्कराणि सिताम्भोजानि । भवमज्जन्ती अवमज्जयन्ती स्नजघनाघातजनिततरङ्गेरिति भावः । यद्वा तव वदनकान्तिनिर्जित तथा उज्जया भयमज्जयन्तीवेत्युत्प्रेक्षा ॥१४॥ त्वमिति । त्वं व्यालान् वनचरजन्तून् पौरजनवत्पश्य, पौरजनप्रीतिं व्यालेषु कुर्वित्यर्थः । एवमुत्तरत्रापि । अतः पौरजनाद्यनवलोकन केशो न कार्य्य इति भावः || १२ || लक्ष्मण इति । सौख त्रम् अनुकूलभार्यत्वं च सौरूपरसायनमिति भावः ॥ १६ ॥ उपस्पृशन्निनि । कमलानि रक्ताब्जानि । पुष्कराणि श्वेतपद्मानि । अवमजन्ती अबमजयन्ती ॥१४- १६ ।। त्रिषवणमुपस्पृशन् त्रिकालस्नानं कुर्वन् । अयोध्यायै राज्याय चेति द्विती
For Private And Personal Use Only
टी.अ.की. स० ९५
॥२८१॥