________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श.रा.भू १॥२८०॥
भूर्जपत्राणि भुजवृक्षत्वचः । एतानि उत्तरच्छदाः उपर्यास्तरणानि येषां तान् । कुशेशयदलायुतान् पद्मदलव्याप्तान स्वास्तरान्, शयनानीत्यर्थः॥२४॥
टी.अ.का. मृदिता इलि । मृदिताः कृतमर्दनाः, प्राणादिभोगेन म्लाना इत्यर्थः। अपविद्धाः त्यक्ताः। फलानीत्यत्रापि मृदितान्यपविद्धानीति योज्यम् ॥२५॥ वस्वौक सारामिति । वस्वौकसारा पूर्वदिगवस्थिता शकपुरी । “वस्वौकसारा शकस्य पूर्वस्यां दिशि संस्थिता" इति श्रीविष्णुपुराणवचनात् । यद्रा वस्त्रो। स० कसारा कुबेरपुरी। “पुरी वस्वौकसारा स्याद्विमानं पुष्पकोऽखियाम्" इति यादवः । नलिनी मानससरतीम्, सौगन्धिकाख्यसरसीं वा । अत्येतीव मृदिताश्चापविद्धाश्च दृश्यन्ते कमलस्रजः। कामिभिर्वनित पश्य फलानि विविधानि च ॥२५॥ वस्वौकसारां नलिनीमत्येतीवोत्तरान कुरून् । पर्वतश्चित्रकूटोऽसौ बहुमूलफलोदकः ॥२६॥ इमं तु कालं वनिते विजहिवां स्त्वया च सीते सह लक्ष्मणेन च । रतिं प्रपत्स्ये कुलधर्मवर्द्धनी सतां पथि स्वैर्नियमः परैः स्थितः ॥ २७ ॥ इत्याचे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे चतुर्नवतितमः सर्गः ॥९४ ॥
अथ शैलादिनिष्कम्य मैथिली कोसलेश्वरः । अदर्शयच्छुभजला रम्यां मन्दाकिनी नदीम् ॥१॥ __ अब्रवीच वरारोहां चारुचन्द्रनिभाननाम् । विदेहराजस्य सुतां रामो राजीवलोचनः ॥२॥ रमणीयतया अतिकामतीव ॥२६॥ इममिति । हे वनिते सीते ! परैः श्रेष्ठः नियमः सतां राजर्षीणां पथि स्थितः सन् इमं कालं चतुर्दशसमासम्मित कालं त्वया लक्ष्मणेन च सह इह चित्रकूटे विजहिवान विहतवान् । विपूर्वाद्धरतेर्लिटः कसुरादेशः । पश्चात्कुलधर्मवर्द्धनी कुलधर्मः प्रजापालनं तद् वर्द्धनीम् । रति राज्यसुखं प्रपत्स्ये ॥२७॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे पीता. अयोध्याकाण्डव्याख्याने चतुर्नवतितमः सर्गः॥९॥ एवं वनगिरिप्रदर्शनेनोपलाल्य नदीप्रदर्शनेनापि लालयति-अथेत्यादिना ॥१॥ अब्रवीदिति । वचने हेतुः तत्सौन्दर्यमित्याशयेनोक्तम्-वरारोहा ते तथा॥२४॥२५॥ वस्वौकसारा अलकापुरी पूर्वदिगवस्थितशक्रपुरी वा । नलिनी मानससरसीम्, सौगन्धिकाख्यसरसी वाऽत्येति रमणीयतयातिक्रामतीव ॥२६॥ एवं कालं चतुर्दशवर्षावधिकालं रतिं प्रीति कुलधर्मवर्धनी सत्यप्रतिपालनरूपधर्मवर्धनीम् । सता राजर्षीणां स्वेनियमैः सह स्थितस्सन् त्वया लक्ष्मणेन च सह। विजहिवान यदि तदा रतिं प्रपत्स्य इति सम्बन्धः ॥२७॥ इति श्रीमहेश्वरतीर्थ विरचि. श्रीरामायणतत्त्वही अयोध्याकाण्ड चतुर्नवतितमः सर्गः ॥९॥ १-३॥
For Private And Personal Use Only