________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandin
॥२७९॥
म० ९४
बा.रा.भू. गुहेति । प्राणतर्पणमिति क्रियाविशेषणम् ॥ १४ ॥ यदीति । हे अनिन्दिते सर्वाङ्गसुन्दरि ! इस वने अनेकाः शरदः संवत्सरान् स्वया लक्ष्मणेन कैङ्कर्थ्य टी. अ. कॉ. लक्ष्मीवता च सार्द्धं यदि वत्स्यामि तदा मां शोकः नगरत्यागजं दुःखं न प्रधक्ष्यति न पीडयिष्यतीत्यर्थः । अत्र यदीत्युक्तत्या भाविविवासस्सूच्यते ॥ १५ ॥ ॐ बहुपुष्पेति । त्राणरसनचक्षुस्त्वक्श्रोत्रप्रीतिकरेऽस्मिन्वने रतवानस्मि प्रीतियुक्तोऽस्मि । भामिनि विशेषतस्त्वत्सन्निधानादिति भावः ।। १६ ।। न केवलं गुहासमीरणो गन्धान् नानापुष्पभवान् वहन् । घ्राणतर्पणमभ्येत्य कं नरं न प्रहर्षयेत् ॥ १४ ॥ यदीह शरदोऽनेका स्त्वया सार्द्धमनिन्दिते । लक्ष्मणेन च वत्स्यामि न मां शोकः प्रधक्ष्यति ॥ १५ ॥ बहुपुष्पफले रम्ये नानाद्विज गणायुते । विचित्रशिखरे ह्यस्मिन रतवानस्मि भामिनि ॥ १६ ॥ अनेन वनवासेन मया प्राप्तं फलद्वयम् । पितु श्वानृणता धर्मे भरतस्य प्रियं तथा ॥ १७ ॥ वैदेहि रमसे कच्चिच्चित्रकूटे मया सह । पश्यन्ती विविधानं भावान् मनो वाक्कायसंयतान् ॥ १८ ॥ इदमेवामृतं प्राहू राशि राजर्षयः परे । वनवासं भवार्थाय प्रेत्य मे प्रपितामहाः ॥ १९ ॥ सुखस्य लाभः किन्तु पित्रानृण्यबन्धुहर्षाविपीत्याह- अनेनेति । फलद्वयमेवाह पितुरिति । धर्मेविषये पितुः अनृणता आनृण्यम्, तद्वाक्यकरणमित्यर्थः भरतस्य प्रियं च भरतस्य भाविस्वकैङ्कर्य्यमिति भावः ॥ १७ ॥ एवं स्वप्रीतिमुक्त्वा सीताप्रीतिं पृच्छति वैदेहीत्यादिना । वैदेहि । 'भोगोपोद्वातकेली चुलकित भगद्वैश्वरूप्यानुभावा' त्वां जानासि किं मया भोगस्रोतसि त्वां प्रधानीकुर्वन्तं मां जानासि । (पाठभेदः । मया भोगस्रोतसि त्वामप्रधानीकुर्वन्तं मां जानासि किं चित्रकूटे भोगस्थानसौभाग्यमपि वाङ्मनसाविषयं जानासि ।) तटस्थोद्दीपनविभावानप्याह पश्यन्तीति । मनोवाक्कायाः संयताः यैस्तान् स्ववशीकृतजनमनोवाक्कायानित्यर्थः । मनोवाक्कायसंयतेतिपाठे सन्नियमितकरणत्रयेत्यर्थः । विविधान् मलयानिलको किलालापभ्रमरझङ्कारपुष्पहास || प्रभृतिभेदान् । भावान् विभावान् पश्यन्ती रमसे कच्चित् । यद्वा भावान् किन्नरमृगादीनां चेष्टा । " भावो टीला किया चेष्टा भूत्यभिप्रायजन्तुषु । " इति वैजयन्ती ॥ १८ ॥ न केवलमयं वनवासो भोगाय आमुष्मिक साधक श्वेत्याह- इदमिति । वनवासं वनवासरूपम् । इदम् अमृतम् अमृतवद्धोग्यं वस्तु मे प्रपितामहाः मत्पितृवंश्याः । परे पूर्वे राजर्षयः । प्रेत्य प्रारब्धशरीरवियोगं प्राप्य । भवार्थाय संसारविनाशायेत्यर्थः । 'तमसे दीपो मशकार्थो प्राणतर्पणं यथा तथा कं नरं न प्रहर्षयेदिति सम्बन्धः ॥ १४- १० ।। भावान् किन्नरादीनां चेष्टाः । मनोवाक्कायसंयता सम्पनियमित करणत्रयेत्यर्थः ॥ १८ ॥ इदमिति
For Private And Personal Use Only
॥ २७९॥