________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
शव्यत्यय आर्षः ॥२०॥२१॥ त इति । धूमाग्रं धूमशिखाम् । अमनुष्ये मनुष्यरहिते देशे । अग्निः धूमरेखाविशेषनिश्चितः न भवति । अत्र अत्रैव वह्निमत्प्रदेशे राघवी स्तः । व्यक्तं ध्रुवम् ॥ २२ ॥ अयोति । अथ यदि न स्त इत्यर्थः । तपस्विनः सन्ति, ते प्रवव्या इति भावः ॥२३॥
ते समालोक्य धूमाग्रमूचुर्भरतमागताः। नामनुष्ये भवत्यनिर्व्यक्तमत्रैव राघवौ ॥ २२॥ अथ नात्र नरव्याघ्रौ राजपुत्रौ परन्तपौ। मन्ये रामोपमाः सन्ति व्यक्तमत्र तपस्विनः ॥ २३॥ तच्छुत्वा भरतस्तेषां वचनं साधु सम्मतम् । सैन्यानुवाच सर्वीस्तानमित्रबलमर्दनः ॥ २४ ॥ यत्ता भवन्तस्तिष्ठन्तु नेतो गन्तव्यमग्रतः। अहमेव गमिष्यामि सुमन्त्री गुरुरेव च ॥ २५॥ एवमुक्तास्ततः सर्वे तत्र तस्थुः समन्ततः । भरतो यत्र धूमाग्रं तत्र दृष्टिं समादधात् ॥ २६॥ व्यवस्थिता या भरतेन सा चमूर्निरीक्षमाणापि च धूममग्रतः । बभूव हृष्टा नचिरेण जानती प्रियस्य रामस्य समागमं तदा ॥ २७॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमद
योध्याकाण्डे त्रिनवतितमः सर्गः ॥ ९३॥ तदिति । साधुसम्मतं साधूनां न्यायविदा सम्मतम् । अमित्रबलमर्दनः अमोघशासन इति यावत् ॥२४॥ यत्ता इति । यत्ताः निश्शब्दाः । इतः अस्मा देशात् । परम् अग्रतः भवद्भिर्न गन्तव्यम् । अहमेव राजसु मन्त्रिषु सुमन्त्र एव ऋत्विक्षु गुरुर्वसिष्ठ एव । धृतिरिति पाठे-सुमन्त्र एवोच्यते ॥२५॥ M॥२६॥ व्यवस्थितेति । अग्रतो धूर्म निरीक्षमाणापि च । अनेन रामदर्शनवरातिशयः सूच्यते । व्यवस्थिता भरतेन व्यवस्थापितेत्यर्थः। भरतेन हेतुना व्यवस्थिता वा । सा चमूः प्रियस्य रामस्य नचिरेण अचिरेण । समागमं जानतो सती तदा व्यवस्थाकालेपि दृष्टा बभूव । जानकीप्रियस्येति च पाठः ॥२७॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने त्रिनवतितमः सर्गः ॥९३ ॥ नरव्याघौ अत्र यदि न स्त इति शेषः ॥ २३-२७ ॥ इति श्रीमहेश्वरतीयविरचितायां श्रीराम अयोध्याकाण्डव्याख्यायो त्रिनवतितमः सर्गः ॥ ९३ ॥
स-समागममुदिश्य भरतेन स्थापिता ॥ विष०-या चमूर्भरतेन पबस्थिता व्यवस्थापिता सा वासाय अमतो भूमि निरीक्षमाणा नचिरेण शीधन् । जानकीमिषस्प रामस्य । समागम निरीक्षमाणा तदा हृष्टा बभूव ॥ २७ ॥
For Private And Personal Use Only