SearchBrowseAboutContactDonate
Page Preview
Page 560
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir वा.रा.भू. बस०९३ युधः। दाक्षिणात्या हि केशाबुद्धृत्य बद्धा कुसुमापीडैरलङ्कन्ति ॥ १३ ॥ निष्कूजमिति । घोरप्रदर्शनं क्रूरदर्शनमिदं वनं पुरा निष्कूजमिव भूत्वा टी.अ.का. निर्जनं भूत्वेति यावत् । सम्प्रति जनाकीर्णा अयोध्या सौम्यनगरीव मा मां प्रतिभाति ॥१४॥ सुरैरिति । इयादिखुरैरुदीरितः उत्थापितो रेणुर्दिवं प्रच्छाद्य तिष्ठति। वहति द्रुतमपनयति । कुर्वन्निव मम प्रियं रामाश्रमदर्शनप्रदानादिति भावः। अनेनावगम्यते रामाश्रमवर्णनं तदधिष्ठितत्वेन प्रीतिहेतुत्वादिति॥१५॥ निष्फूजमिव भूत्वेदं वनं घोरप्रदर्शनम् । अयोध्येव जनाकीर्णा सम्प्रति प्रतिभाति मा ॥ १४॥ खुरैरुदीरितो रेणु दिवं प्रच्छाद्य तिष्ठति । तं वहत्यनिलः शीघ्रं कुर्वन्निव मम प्रियम् ॥ १५॥ स्यन्दनांस्तुरगोपेतान सूतमुख्यैरधिष्ठि तान् । एतान् सम्पततः शीघ्रं पश्य शत्रुघ्न कानने ॥ १६॥ एतान् वित्रासितान् पश्य बहिणः प्रियदर्शनान् । एतमाविशतः शीघ्रमधिवासं पतत्त्रिणः॥१७॥अतिमात्रमयं देशो मनोज्ञः प्रतिभाति मा। तापसानां निवासोऽयं व्यक्तं स्वर्गपथो यथा ॥ १८॥ मृगा मृगीभिः सहिता बहवः पृषता वने । मनोज्ञरूपा लक्ष्यन्ते कुसुमैरिव चित्रिताः ॥ १९ ॥ साधुसैन्याः प्रतिष्ठन्तां विचिन्वन्तु च कानने । यथा तौ पुरुषव्याघ्रौ दृश्यते रामलक्ष्मणौ ॥२०॥ भरतस्य वचः श्रुत्वा पुरुषाः शस्त्रपाणयः । विविशुस्तद्वनं शूरा धूमं च ददृशुस्ततः ॥२१॥ वक्ष्यमाणत्रासहेतुत्वेनाइ-स्यन्दनानिति । सूतमुख्यैः सारथिमुख्यैः । सम्पततः रामदर्शनकुतूहलेन सम्यग्गच्छतः ॥ १६ ॥ एतानिति । विवासि तान् रथैरिति शेषः। बर्हिणः मयूरान् । एतं शैलम् । पतत्रिणः प्रशस्तपक्षानिति बर्दिविशेषणम् ।। १७ ॥ अतिमात्रमिति । अतिमात्रं मनोज्ञ इति । सम्बन्धः । अत एव स्वर्गपथो यथा स्वर्गप्रदेश इव । मा मां प्रतिभाति ॥ १८॥ मृगा इति । पृषताः बिन्दुमृगाः ॥ १९॥ साविति । साधुसैन्याः उचिताः सैनिकाः । “साधुः स्त्रिपूचिते सौम्ये सजने वार्द्धषौ पुमान् ।" इति वैजयन्ती। प्रतिष्ठन्तां गच्छन्त्वित्यर्थः । दृश्यते दृश्येयाताम् । लकार । निष्कूजमिव भूत्वा पूर्व जनशब्दरहितं भूत्वा स्थितमिदं धन संप्रति जनाकीर्णायोध्येव प्रतिभातीति सम्बन्धः ॥ १४ ॥ दावं वनं प्रच्छाय " दवदायी बनारण्य वही" इत्यमरः । दिवं प्रच्छायेति वा पाठः-शीघ्रं तं वहात तं द्रुतमपनयतीत्यर्थः ॥१५-१९॥ साधुसैन्याः उचिताः सैनिकाः मतिष्ठन्ता गच्छन्त्वित्यर्थः ॥२०-२२॥ For Private And Personal Use Only
SR No.020792
Book TitleValmiki Ramayanam Part 02
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages691
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy