________________
www.kabatirth.org
Acharya Shri Kasagarsur Gyanmandir
Shri Mahavir Jain Aradhana Kendra
शब्दः कार्यविचारे वर्त्तते ॥६॥ यादृशमिति। अस्य देशस्य यादृशं रूपं लक्ष्यते । मन्दाकिनी चित्रकूटमध्यवर्तितरूपं मया च यथा येन प्रका) रेण श्रुतं भरद्वाजात् तथा दृश्यत इति शेषः॥७॥ तदेवाह-अयमित्यादिना । अयं पुरोवर्ती गिरिश्चित्रकूटो भवति तथेयं मन्दाकिनी भवति । एतत् अनयोर्मध्यवत्ति वनं नीलमेघनिभं प्रकाशते ।। ८॥ अथ तद्देशप्राप्ति दर्शयति-गिरेः सानूनीति । सानूनि एतानीति सिद्धम् । अवमृद्यन्ते भज्यन्ते॥९॥
यादृशं लक्ष्यते रूपं यथा चैव श्रुतं मया । व्यक्तं प्राप्ताः स्म तं देशं भरद्वाजो यमब्रवीत् ॥७॥ अयं गिरिश्चित्र कूट इयं मन्दाकिनी नदी। एतत् प्रकाशते दूरान्नीलमेघनिभं वनम् ॥ ८॥ गिरेःसानूनि रम्याणि चित्रकूटस्य सम्प्रति । वारणैरवमृद्यन्ते मामकैः पर्वतोपमैः ॥९॥ मुञ्चन्ति कुसुमान्येते नगाः पर्वतसानुषु । नीला इवातपापाये तोयं तोयधरा घनाः ॥ १०॥ किन्नराचरितं देशं पश्य शत्रुघ्न पर्वतम् । मृगैः समन्तादाकीर्ण मकरैरिव सागरम् ॥ ११ ॥ एते मृगगणा भान्ति शीघ्रवेगाः प्रचोदिताः। वायुप्रविद्धा शरदि मेघराजिरिवाम्बरे ॥ १२॥ कुर्वन्ति कुसुमापीडान शिरस्सु सुरभीनमी। मेघप्रकाशैः फलकैर्दाक्षिणात्या यथा नराः॥ १३॥ अथ रामनिवासत्वेन भोग्यताबुद्ध्या तदनं भ्रातरं प्रति वर्णयति-मुञ्चन्तीत्यादिना । एते वकुला इत्यर्थः। आतपापाये धर्मान्ते, वर्षाकाल इति यावत् ।। तोयधरा इति नीलत्वे हेतुः ॥ १०॥ किन्नरेति । किन्नराचरितं देशं किन्नराचरितदेशरूपं पर्वतम् ॥११॥ एत इति । प्रचोदिताः सैनिकैरिति शेषः ।
प्रविद्धा प्रेरितेति यावत् ॥१२॥ कुर्वन्तीति । अमी भटाः मेघप्रकाशैः फलके केशबन्धविशेषैः वनसञ्चारार्थ कल्पितरुपलक्षिताः सन्तः । दाशि पणात्या नरा यथा दाक्षिणात्या नरा इव । शिरस्सु कुसुमापीडान कुसुमशेखरान् कुर्वन्ति । "आपीडशेखरोत्तंसावतंसाः शिरसि सजः ।" इति हला
दक्षिणदिग्भवा नराः मेघप्रकाशैर्मक्षादिनीलचर्मपिनद्धतया नीलमेघतल्यैः फलकैः साधनभूतैः शिरस्तु कुसुमापीहान कुस्तुमसमूहान्यथा कुर्वन्ति यथा धारयन्ति तथैवामी वृक्षाः कुसुमाषीडान् कुसुमस्तवकान् शिरस्तु धारयन्ति । दाक्षिणात्या हि फलकान कक्षादिचर्भपिनद्धान् कृत्वा तेषु पुष्पाणि विकीर्य शिरस्तु, धारयन्तीति प्रांसद्धिः । यद्वा अमी भटाः मेघप्रकाशैः फलकेरूपलक्षिताः सन्तः दाक्षिणात्या नरा इव कुसुमापीडान कुसुमशेखरान् शिरस्सु कुर्वन्ति ॥ १३ ॥
सा-मसाजो व देश बास पारशलक्ष विशिष्टमनवीन । यथा च मया श्रुतं तादशलक्षणे त देशं व्यक्त प्राप्ताः स्म । यतोऽस्य रूपं तवैव लश्यते । स्मेयव्यय पा भाषेवा विसालोपः ॥ ७ ॥
For Private And Personal Use Only