________________
Shri Mahavir Jain Aradhana Kendra
www.kabatirth.org
Acharya Shri Kailassagarsur Gyanmandir
बर
यानाः यानत्यागानही अपियानानि त्यक्त्वा ब्राह्मणं ब्रह्मविदं भरद्वाज पर्थवारयन्, वन्दनायेति शेषः ।। १४॥ वेपमानेति । वेपमाना वाईकाइपिदर्श नाच्च । कृशा दीना, रामविरहादिति शेषः ॥१५॥ असमृद्धेन अपूर्णेन, फलापर्यवसायिनति यावत् । कामेन मनोरयेन उपलक्षितेति शेषः। लोकस्य
वेपमाना कृशा दीना सह देव्या सुमित्रया। कौसल्या तत्र जग्राह कराभ्यां चरणो मुनेः ॥ १५॥ असमृद्धेन कामेन सर्वलोकस्य गर्हिता । कैकेयी तस्य जग्राह चरणौ सव्यपत्रपा ॥ १६॥ तं प्रदक्षिणमागम्य भगवन्तं महामुनिम् । अदूराद्भरतस्यैव तस्थौ दीनमनास्तदा ॥ १७ ॥ ततः पप्रच्छ भरतं भरद्वाजो दृढवतः । विशेष ज्ञातुमिच्छामि मातॄणां तव राघव ॥ १८॥ एवमुक्तस्तु भरतो भरद्वाजेन धार्मिकः । उवाच प्राञ्जलिर्भूत्वा वाक्यं वचनकोविदः ॥ १९॥ यामिमां भगवन दीनां शोकानशनकर्शिताम् । पितुर्हि महिषी देवी देवतामिव पश्यसि ॥२०॥ एषा तं पुरुषव्याघ्र सिंहविक्रान्तगामिनम् । कौसल्या सुषुवे राम धातारमदितिर्यथा ॥ २१ ॥ अस्या वामभुजं श्लिष्टा यैषा तिष्ठति दुर्मनाः। [इयं सुमित्रा दुःखार्ता देवी राज्ञश्च मध्यमा।] कर्णिकारस्य शाखेव
शीर्णपुष्पा वनान्तरे ॥ २२ ॥ गर्हिता लोकेन गर्हिता। सव्यपत्रपा सलजा । रामविवासनहेतुत्वात् ॥ १६ ॥ लज्जावशादेव कौसल्यादिभिः सह मुनेः पुरतः स्थातुमशक्का प्रदक्षिण
व्याजेन भरतं गतेत्याह-तमित्यादिना । दीनमना कैकेयी ॥ १७॥ तत इति । दृढव्रत इत्यनेन सर्वज्ञत्वं लक्ष्यते, सर्वज्ञोपि केकेयीशिक्षार्थ पप्रच्छे प्रत्यर्थः । विशेष संज्ञासंज्ञिसम्बन्धादिविशेषम् । इतिकरणमध्याहृत्य इति पप्रच्छेत्यन्वयः॥१८॥ एवमिति । धार्मिकः सत्यवादीत्यर्थः। वचनकोविदः वचने पण्डितः, भरद्वाजवचनतात्पर्य्यज्ञ इत्यर्थः । भरतमुखेन मातृणां स्वभावविशेषप्रतिपादनं हि मुनेराशयः॥१९॥ यामिति । शोकानशनकर्शिता शोकानशनाभ्यां कर्शिताम् । देवतामिव धर्मदेवतामिव । सिंहविक्रान्तगामिनं सिंहवाद्विकान्तं विक्रमयुक्तं यथा भवति तथा गामिनं गमनशीलम् । घातारं विष्णुम् । " एष धाता विधाता च" इति वक्ष्यमाणत्वात् । सर्वगुणसम्पन्ना राममाता एषा कौसल्येत्यर्थः ॥ २० ॥२१॥ अस्या इति । वामभुज । विशेषम् इयं का इयं केत्येवरूपं विशेषमित्यर्थः ॥ १८-२०॥ धातारम् उपेन्द्रम् ॥ २१ ॥ अस्याः कौसल्यायाः । दुर्मनाः दुःखितमनाः ॥ २२ ॥ २३ ॥
For Private And Personal Use Only