________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बा.रा.भू. श्विष्टा कौसल्याया वेपमाना ङ्गत्वात्तद्धारणार्थं तद्वामभु नमवनृत्य स्थितेत्यर्थः । दुर्मनाः दुःखितमनाः । दुर्मनस्त्वे दृष्टान्तः कर्णिकारस्येति । शीर्णपुष्पा म्लानपुष्पा ॥२२॥ एतस्या इत्यत्र उक्तगुणसम्पन्नयोर्लक्ष्मणशत्रुभयोर्मातेयमिति बोध्यम् । देववर्णिनी अश्विनीदेवतुल्यौ ॥२३॥ यस्या इति । जीवनाशं ॐ राक्षसभूयिष्ठं दण्डकारण्यं प्रति विवासनात् जीवस्य जीवनस्य नाशम् इतः । इह वने । क्रुध्यतीति क्रोधना । कर्त्तरिल्युट् । अकृतप्रज्ञाम् अशिक्षित बुद्धिम् ।
॥२७५॥
एतस्यास्तु सुतौ देव्याः कुमारौ देववर्णिनी । उभौ लक्ष्मणशत्रुत्रौ वीरौ सत्यपराक्रमौ ॥ २३ ॥ यस्याः कृते नर व्याघ्रौ जीवनाशमितो गतौ । राजपुत्रविहीनश्च स्वर्ग दशरथो गतः ॥ २४ ॥ क्रोधनामकृतप्रज्ञां दृप्तां सुभगमानि नीम् । ऐश्वर्यकामां कैकेयीमनार्य्यामार्यरूपिणीम् ॥ २५ ॥ ममैतां मातरं विद्धि नृशंसां पापनिश्चयाम् । यतो मूलं हि पश्यामि व्यसनं महदात्मनः ॥ २६ ॥ इत्युक्त्वा नरशार्दूलो बाष्पगद्गदया गिरा । स निशश्वास ताम्राक्षो नागः क्रुद्ध इव श्वसन् ॥ २७ ॥ भरद्वाजो महर्षिस्तं ब्रुवन्तं भरतं तथा । प्रत्युवाच महाबुद्धिरिदं वचनमर्थवत् ॥२८॥ न दोषेणावगन्तव्या कैकेयी भरत त्वया । रामप्रवाजनं ह्येतत् सुखोदर्क भविष्यति ॥ २९ ॥ देवानां दानवानां च ऋषीणां भावितात्मनाम् । हितमेव भविष्यद्धि रामप्रत्राजनादिह ॥ ३० ॥
सुभगमानिनीं सुभगां सुन्दरीमात्मानं मन्यत इति सुभगमानिनी ताम् । वस्तुतोऽनार्याम् आर्यरूपिणीमार्यवृद्धासमानाम् । यतोमूलं यत्कारणकम् आत्मनो मम ॥२४- २६ ॥ इतीति । बाष्पगद्गदया रामविवास नस्मरणजवाष्पेण गद्गदया स्खलन्त्या गिरा इत्युक्त्वा । नागः सर्पः ॥२७॥ भरद्वाज इति । तथा ब्रुवन्तमित्यन्वयः । महाबुद्धिः भाविज्ञः । अर्थवत् प्रयोजनवत् ॥ २८॥ नेति । दोषेण दोषवत्तया नावगन्तव्या, तस्याः देवप्रेरितत्वादित्यभिप्रायः । तत्र हेतुमाह रामेति । सुखोदर्के सुखोत्तरम् । अतीतानागतवर्त्तमानज्ञो महर्षिर्भाविरावणवधादिकं हृदि निधाय देवादीनां सुखोद के भविष्यतीत्युक्तवान् २९/३० जीवनाशं गतौ तादृशापदं प्राप्तावित्यर्थः ॥ २४ ॥ २५ ॥ यतोमूलं यन्निमित्तम् ॥ २६-२८ ॥ कैकेयी दोषेण नावगन्तव्या कैकेय्यां दोषदृष्टिर्न कर्तव्येत्यर्थः । स०-देववर्णिनी देवानां वर्णों रूपमेतयोरस्तीति तथा । यद्वा देवानां वर्णो वर्णना स्तुतिरिति यावत् । ययोस्ती । कुमारौ घण्मुखसमौ । कुः कुत्सितो मारः सौन्दर्येण यान्यामिति वा । अतो न सुताविव्यतिरि कता ॥ २३ ॥ जीवनेपि नाशः जीवनाशः अदर्शनमिति यावत् । तं गतौ ॥ २४ ॥ आर्वरूपिणीम् आर्यस्य वस्तुन एव रूप यस्यास्ताम् ॥ २१ ॥ या मूलं यस्य व्यसनस्य तत् यतोमूलम् ॥ २६ ॥
For Private And Personal Use Only
टी.अ.का. स० ९२
॥२७५