SearchBrowseAboutContactDonate
Page Preview
Page 553
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kabatirth.org Acharya Shri Kailassagarsur Gyanmandir सपरिवारः। “परिवारः परिकरः परिष्कन्दः परिग्रहः । तथोपकरणं प्रोक्तं परिबईः परिच्छदः ॥” इति हलायुधः । कामात् रामप्राप्तीच्छया ॥१॥२॥ Koकचिदिति । अस्मद्विषये अस्मदाश्रमे । रात्रिः सुखा गता कनिदित्यन्वयः। आतिथ्ये विषये। समयः संपूर्णः, तृप्त इति यावत् । अनत्यनेन पूर्व भरताशयपरीक्षणार्थमेवातिथ्यकरणमिति द्योतितम्, रामविषयभक्त्यभावे भोगप्रवणः स्यादिति हृदयम् ॥ ३ ॥ तमिति । अभिनिष्क्रान्तमित्यनेन तमृषिः पुरुषव्याघ्र प्राञ्जलिं प्रेक्ष्य चागतम् । हुताग्निहोत्रो भरतं भरद्वाजोऽभ्यभाषत ॥२॥ कच्चिदत्र सुखा रात्रि - स्तवास्मद्विषये गता। समग्रस्ते जनः कच्चिदातिथ्ये शंस मेऽनघ ॥३॥ तमुवाचाञ्जलिं कृत्वा भरतोऽभिप्रणम्य च । आश्रमादभिनिष्क्रान्तमृषिमुत्तमतेजसम्॥४॥ सुखोषितोऽस्मि भगवन् समग्रवलवाहनः । तर्पितः सर्वकामैश्च सामात्यो बलवत्त्वया ॥५॥ अपेतलमसन्तापाः सुभिक्षाः सुप्रतिश्रयाः । अपि प्रेष्यानुपादाय सर्वे स्म सुसुखो षिताः ॥६॥ आमन्त्रयेऽहं भगवन् कामं त्वामृषिसत्तम । समीपं प्रस्थितं भ्रातुमत्रेणेक्षस्व चक्षुषा ॥७॥ आश्रमं तस्य धर्मज्ञ धार्मिकस्य महात्मनः । आचश्व कतमो मार्गः कियानिति च शंस मे ॥८॥ कौसल्यादिसर्वजनदर्शनार्थ भरतागमनकाल एव बहिर्निर्गतवानृपिरिति व्यजितम् ॥४॥ सुखेति । बलवत्तर्पितः अतीव तर्पितः “किमुतातीवबलवत् स्वति सुषु च निर्भरे" इति वैजयन्ती ॥५॥ अपेतेति । लमो ग्लानिः । सन्तापो देहोष्ण्यम् । अपिप्रेष्यानुपादाय प्रेष्यानप्यारभ्य । सुभिक्षाः समृ खानपानाः। सुप्रतिश्रयाः शोभनस्थानाः, शोभनगृहा इति यावत् । “स्थाने गोष्ठयां सत्रयागे प्रत्याहारे प्रतिश्रयः” इति वैजयन्ती ॥६॥काम यथेष्टम् । “कामं प्रकामं पर्याप्तं निकामेष्टं यथेप्सितम् ।" इत्यमरः। हे भगवन् ! त्वामामन्त्रये आपृच्छे । भ्रातुः समीपं कामं प्रस्थितं मां वं मित्रेण मित्रसम्बन्धिना चक्षुषा ईक्षस्व ॥७॥ आश्रममिति । धर्मेण योगजधर्मेण जानातीति धर्मज्ञ ! योगप्रभावविदितसर्ववृत्तान्तेत्यर्थः । धार्मिकस्य Noपितृवचनपरिपालनरूपं धर्ममाचरतः महात्मनः महापर्यस्य तस्य रामस्याश्रममाचक्ष्व । स चाश्रमः कियान् कियहूरतः तस्य मार्गः कतमः कामात् रामप्राप्तिकामात् ॥ १ ॥२॥ सुखा सुखरूपा, आतिथ्ये ते जनः सन्नोभूदिति शेषः ॥ ३॥ ४॥ बलवत्तर्पितः अतीव तर्पितः ॥५॥ सुप्रतिश्रयाः शोभनस्थानाः, शोभनगृहा इत्यर्थः । प्रधानुपादाय प्रेप्यानपि परिगृह्य, प्रेयेस्सहिता इति यावत् ॥६॥ काम यथेच्छम् ॥ ७॥ आश्रममाचक्ष्व कतमो मार्ग: For Private And Personal Use Only
SR No.020792
Book TitleValmiki Ramayanam Part 02
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages691
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy