________________
Shri Mahavir Jain Aradhana Kendra
www.kabatirth.org
Acharya Shri Kailassagarsur Gyanmandir
.रा.भू.
१२७३॥
पद्मम् । आकाशवर्णप्रतिमान् आकाशवनिम्मलानित्यर्थः । सुखप्लवान सुखेन पूवः स्नानं येषु तथोक्तान् । यवससञ्चयान तृणसमूहान् । “यवसं टी.अ.का. तृणमर्जुनम्" इत्यमरः । पशूनां निर्वापार्थान् पशुभ्यो विश्राणनार्थान् ।। ७४-७९ ॥ व्यस्मयन्तेति । स्वप्रकल्पत्वोक्तिरयत्नसिद्धत्वात् अपूर्व त्वात् आश्चर्यकरत्वाच्च तादृक् वाचामभूमिम् । भरतस्य भरताय ॥ ८॥८१ ॥ प्रतिजग्मुरिति । अनुज्ञाप्य अनुज्ञा कारयित्वा ॥ ८२ ॥ इदं ।
व्यस्मयन्त मनुष्यास्ते स्वप्नकल्पं तदद्भुतम् । दृष्ट्वातिथ्यं कृतं तादृक् भरतस्य महर्षिणा ॥८० ॥ इत्येवं रम माणानां देवानामिव नन्दने । भरद्वाजाश्रमे रम्ये सा रात्रिर्व्यत्यवर्तत ॥ ८१ ॥ प्रतिजग्मुश्च ता नद्यो गन्धर्वाश्च यथागतम् । भरद्वाजमनुज्ञाप्य ताश्च सर्वा वराङ्गनाः ॥ ८२॥ तथैव मत्ता मदिरोत्कटा नरास्तथैव दिव्यागुरु चन्दनोक्षिताः। तथैव दिव्या विविधाः स्रगुत्तमाः पृथक् प्रकीर्णा मनुजैःप्रमर्दिताः ॥८३॥ इत्याचे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे एकनवतितमः सर्गः ॥९१॥
ततस्तां रजनी व्युष्य भरतः सपरिच्छदः । कृतातिथ्यो भरद्वाजं कामादभिजगाम ह ॥१॥ चातिथ्यकरणमैन्द्रजालिकवन मिथ्येत्याह-तथैवेति । मत्ताः दृप्ताः भोगैस्तृप्ताः मदिरोत्कटाश्च मद्येन मत्ताश्च । “मत्ते शौण्डोत्कटक्षीवाः " इत्य मरः । तथैव अनुभवकाल इवावतिषतेत्यर्थः। प्रमर्दिताः प्रकीर्णाश्च भोगवशादिति भावः । पृथक् पूर्वस्रग्भ्यो विलक्षणाः ॥८३॥ इति श्रीगोविन्दराज विरचिते श्रीरामायणभूषणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने एकनवतितमः सर्गः ॥९॥ तत इत्यादि । व्युष्य विशेषेणोषित्वा। सपरिच्छदः इति हलायुधः । यवससक्षयान नृणसमूहान् । पशूनां निर्वापार्थान् पशुभ्यो विश्राणनार्थान । अत्र द्वितीयान्तानां ददृशुरित्यनेन सम्बन्धः ॥ ७-७९ ॥ स्वप्रकल्प अयत्नसिद्धत्वाददृष्टपूर्वत्वादाश्चर्यावहत्वाच स्वमकल्पोक्तिः ॥ ८० ॥८१ ॥ प्रतिजग्मुरिति । अनुज्ञाप्य अनुज्ञां प्राप्येत्यर्थः ॥ ८२ ॥ एतत्सर्व मिथ्या न भवति सत्यमेवेति दर्शयितुं मदादीनामवस्थितिमाह-तथैवेति । मत्ताः भोगैः दृप्ताः । मदिरोत्कटाश्च मदिरया मत्ताश्च । तथैव अनुभवकाल इव अवर्तन्तेत्यर्थः ॥८३॥ इति श्रीमहेश्वरतीर्यविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां अयोध्याकाण्डव्याख्यायां एकनवतितमः सर्गः ॥ ९१ ॥ तत इति । सपरिच्छदः सपरिवारः ।
Lal॥२७३॥
For Private And Personal Use Only