________________
Shri Mahavir Jain Aradhana Kendra
वा.रा.भू. ॥२७२॥
www.kobatirth.org
टी.अ.की.
पिठरैः प्रतप्तपिठरसंस्कृतैः " संस्कृतं भक्षाः " इत्यण् । तस्य लुक् । पिठराः कुण्डानि । “उखा स्थाली चरुः कुम्भी पिठरः कुण्डमुच्यते” इति इला युधः । मार्गमायूरकौक्कुटैः मृगमयूरकुक्कुटमांसः ॥ ६९ ॥ पात्रीणामित्यारभ्य सञ्चया इत्यन्तमेकं वाक्यम् । पात्रीणाम् अन्नधानकुम्भीनाम् । स्थालीनां व्यञ्जनपात्राणाम् । नियुतानि लक्षाणि । न्यर्बुदानि दशकोट्यः । पात्राणि भोजनपात्राणि, अमत्राणीति यावत् । दधिपूर्णा इति स्याल्यादित्रयविशेषणम् । स० ९१
पात्रीणां च सहस्राणि स्थालीनां नियुतानि च । न्यर्बुदानि च पात्राणि शातकुम्भमयानि च ॥ ७० ॥
स्थाल्यः कुम्भ्यः करम्भ्यश्च दधिपूर्णाः सुसंस्कृताः । यौवनस्थस्य गौरस्य कपित्थस्य सुगन्धिनः ॥ ७१ ॥ ह्रदाः पूर्णा रसालस्य दनः श्वेतस्य चापरे । बभूवुः पायसस्यान्ये शर्करायाश्च सञ्चयाः ॥ ७२ ॥
Acharya Shri Kailassagarsuri Gyanmandir
स्थाल्यः पिठराः । कुम्भ्यः क्षुद्रकुम्भाः । करम्भ्यः विशालास्य गुरुस्थाल्यः । करम्भ्यः कर्कर्य इत्याद्दुः । सुसंस्कृताः दधिसंस्कारकशुण्ठ्चादियुक्ताः । यौवनस्थस्य नातिनूतनस्य नातिपुराणस्येत्यर्थः । मथनानन्तरं यामान्तरितस्येत्यर्थः । कपित्थस्य कपित्थपरिमळयुक्ततत्रस्येत्यर्थः । “तकं कपित्थं मथितम्" इति वैजयन्ती । गौरस्य शुभ्रस्य । रसालस्य तक्रविशेषस्य । “अपक्कतक्रं सव्योषं चतुर्जातं गुडार्द्रकम् । सजीरकं रसालं स्यान्मज्जिका शिख रिण्यपि ॥” इति वैजयन्ती । सव्योषं शुण्ठीपिप्पलीमरिचियुक्तम् । चतुर्जातगुडार्द्रकं चतुजीतेः एलालवङ्गककोलनागपुष्पैः गुडेन शर्करया आर्द्रकेन च युक्तम् । कपित्थेन पूर्णाः अपरे हदा बभ्रुवुः। रसालेन पूर्णा अपरें हदा बभ्रुवुः । दभा पूर्णाश्चापरे ह्रदाः । अन्ये पायसेन पूर्णाः। पायसस्यान्य इति पाठः । सर्वत्र तृतीयार्थे षष्ठी । तद्व्यञ्जनार्थं शर्करायाः सञ्चयाः राशयश्च बभूवुरित्यर्थः । शर्करायावसञ्चया इति च पाठः । शर्करामिश्रयवविकारापूपसञ्चय पात्रीणामिति। पात्रीणां हस्तंप्रक्षालनायुपयुक्तपात्राणां स्थालीनाम् उखानां पात्राणि भोजनपात्राणि । स्थाल्यः उखाः। कुम्भ्यः क्षुद्रस्थाल्यः 'उखा स्थाली च कुम्भी च पिठरः कुण्डमुच्यते " इति हलायुधः । करम्भ्यः स्थाल्यादयश्चासन्निति पूर्वेण सम्बन्धः । यौवनस्थस्य नातिनवस्य नातिपुराणस्य, मथनानन्तरं यामान्तरितस्येत्यर्थः । कपित्थस्य तक्रस्य " तक्रं कपित्थं मथितम् " इति वैजयन्ती । यद्वा कपित्थस्य कपित्थपरिमलयुक्ततत्रस्येत्यर्थः । रसालस्य शुण्ठीमरिचिपिप्पल्येलालवङ्गकक्कोल नागपुष्पखण्डशर्कराशृङ्गिवेरजीरकमिश्रितस्य तक्रस्य । तथा च वैजयन्ती " अपक्कतक्रं सम्योषं चतुर्जातं गुडाईकम्। सजीरकं रसालं स्यान्मज्जिका शिखरिण्यपि ॥ " इत्युक्तविशेषणविशिष्टेन तक्रेण । दनः दना च पूर्णाः अपरे द्वदा बभूवुरित्यर्थः । शर्करायावसञ्चयाः शर्कराणां यावानां यवविकाराद्यपूपानां
For Private And Personal Use Only
| ॥२७२॥