________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
खरसहितोष्ट्राः खरोष्ट्राः । मृगपक्षिणः क्रीडाथै सनिकैरानीताः । सुभृताः सुतृप्ताः सुपुष्टा वा । तत्र सेनायाम् । अन्यः अन्यं नाकल्पयत् ऋषिकृतव्यातिरिक्तम् अन्नादिकं नाकरोदित्यर्थः ॥ ६४ ॥६५॥ आजेरित्यादिचोकद्वयमेकान्वयम् । आजै: अजमांसः । वाराहे वराहमांसः। निष्ठानवरसञ्चयैः व्यन्जनश्रेष्ठसमूहः। “निष्टानं व्यञ्जनं स्मृतम्" इति हलायुधः । फलनिषूहसंसिद्धः सम्यनिष्पन्नफलयुक्तशर्करादिकाथरसैः।
नाशुलवासास्तत्रासीत् क्षुधितो मलिनोऽपि वा । रजसा ध्वस्तकेशो वा नरः कश्चिददृश्यत ॥ ६५॥ आजैश्चापि च वाराहैर्निष्ठानवरसञ्चयैः । फलनिर्युहसंसिद्धैः सूपैर्गन्धरसान्वितैः॥६६॥ पुष्पध्वजवतीः पूर्णाः शुक्लस्यानस्य चाभितः। ददृशुर्विस्मितास्तत्र नरा लौहीः सहस्रशः॥६७॥ बभूवुर्वनपार्श्वेषु कूपाः पायसकर्दमाः। ताश्च कामदुधा
गावो द्रुमाश्चासन मधुस्रुतः॥६८॥ वाप्यो मैरेयपूर्णाश्च मृष्टमांसचयैर्वृताः। प्रतप्तपिठरैश्चापि मार्गमायूरकौकुटैः॥१९॥ ला" दार्यापीडे क्वाथरसे नि!हो नागदन्तके " इति वैजयन्ती । सूपैः मुगाढकीचणकादिसूपैः । गन्धरसान्वितैः पाकभेदोत्थगन्धरसयुक्तैः ।
पुष्पध्वजवतीः अलङ्कारार्थपरिकल्पितपुष्पशिल्पवतीः । शुक्लस्यान्नस्य पूर्णाः शुक्लनान्नेन च पूर्णाः । लौहीः लोहमयपात्रीः। सर्वलोहेषु प्रधानत्वात् सुवर्णमत्र लोहशब्देनोच्यते ॥ ६६ ॥ ६७ ॥ बभूवुरिति । पायसान्येव कर्दमानि येषु ते तथोक्ताः ताः । गावः पूर्वमेव वनचर्यः कामदुघाः याव दभीष्टक्षीरपूरकाः आसन् । “दुहः कब्धश्च" मधुसुतः मधुनाविणः । (मधुश्च्युतः मधुस्राविणः) ॥६८॥ वाप्य इति । अत्रासन्नित्यनुषज्यते । प्रतप्त आजैरित्यादिश्लोकद्वयमेकं वाक्यम् । निष्ठानवरसञ्चयः व्यञ्जन श्रेष्ठसमूहैः । “निष्ठानं व्यञ्जनं ज्ञेयम्" इति हलायुधः। फलनिर्वृहसंस्थितैः सम्यनिष्पन्नफलयुक्त शर्करादिकाथरसैः । “द्वार्यापीडे क्वाथरसे निहो नागदन्तके " इति वैजयन्ती । पुष्पध्वजवतीः अलङ्कारार्थ परिकल्पितपुष्पध्वजयुक्ताः । लौहीः स्वर्णरजत मयपात्रीः निष्ठानवरसञ्चयैः सूपैश्च शुक्लस्यानस्पाभितः पूर्णलौहार्ददृशुरिति सम्बन्धः ॥६६॥ ६ ॥ पायसकर्दमाः कृपा बभूवुः । कामदुधा गावो बभूवुः । वृक्षा मधुश्युता आसन् ॥ ६८ ॥ प्रतप्तपिठरैः कुण्डे वु प्रतप्तः । “ पिठरः कुण्डमुच्यते " इति हलायुधः । मार्गमायूरकोक्कुटः मृगमयूरकुक्कुटसम्बन्धिभिः मृष्टमासचयैर्वृताः मैरेयपूर्णा वाप्यश्चासन्निति सम्बन्धः ॥ ६९ ॥ मात्रे तात्पर्यम् । तेन पूर्वरूपपक्षे गोऽश्वं गोऽश्वा इतीति हाम्देन्दुशेखरोक्तः । एवं पूर्वत्रापि । सुभृताः पूर्णोदराः । नार्यः अन्यं कथ्यकल्पितपदार्थम् । नाकल्पयन् नाभुगन् । कचित् नान्यो ह्यन्यमकल्पयत् त्यपि पारः । तदा अन्यः भरतसेनान्तर्गतो देशान्तरात्तत्रागतः पुरुषः । अन्यमिायुक्तार्थम् ॥ १४ ॥
For Private And Personal Use Only