________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kalassagarsun Gyarmandie
वा.रा.भ. ॥२७॥
स.९१
विषेकशून्याः । मुदिताः सकचन्दनादिभोगातिशयेन हृष्टाः । तत्र तदा ॥५६॥ तर्पिता इति । अप्सरोगणाः बनलताभूताःन वाहूताः, तासां भरत टी.अ.का. वेश्मप्रवेशकथनात् । सैन्याः सेनायां समवेताः । उदेरयर उक्तवन्तः ॥५७॥ नटीपणप्रकारमाह-नेत्यादिना। न गमिष्याम इत्यत्र विसर्गलोपश्चान्दसः। भरतस्य कुशलमस्तु भरतो यथातथावा तिष्ठत्वित्यर्थः । रामस्येत्यत्रापि। पादाभ्यामतन्तीति पादाताः। " अत सातत्यगमने” इति धातुः।।
तर्पिताः सर्वकामैस्ते रक्तचन्दनरूषिताः । अप्सरोगणसंयुक्ताः सैन्या वाचमुदैरयन् ॥५७॥ नैवायोध्यां गमिष्यामो न गमिष्याम दण्डकान् । कुशल भरतस्यास्तु रामस्यास्तु तथा सुखम् ॥५८॥ इति पादातयोधाश्च हस्त्यश्वारोह बन्धकाः। अनाथास्तं विधिं लब्ध्वा वाचमेतामुदैरयन् ॥१९॥ सम्प्रहृष्टा विनेदुस्ते नरास्तत्र सहस्रशः। भरतस्या नुयातारः स्वर्गायमिति चानुवन् ॥६०॥ नृत्यन्ति स्म हसन्ति स्म गायन्ति स्म च सैनिकाः । समन्तात् परि धावन्ति माल्योपेताः सहस्रशः ॥६॥ ततो भुक्तवतां तेषां तदन्नममृतोपमम् । दिव्यानुदीक्ष्य भक्ष्यांस्तानभव द्भक्षणे मतिः॥६२॥ प्रेष्याश्चेटयश्च वध्वश्च बलस्थाश्च सहस्रशः । बभूवुस्ते भृशं दृप्ताः सर्वे चाहतवाससः॥६३ ॥ कुञ्जराश्च खरोष्ट्राश्च गोश्वाश्च मृगपक्षिणः । बभूवुः सुभृतास्तत्र नान्यो ह्यन्यमकल्पयत् ॥ ६४॥ ते च ते योधाश्च पादातयोधाः । चकाराथिकसमुच्चयः । हस्त्यश्वानामारोहाः सादिनः हस्त्यादिबन्धकाः तद्धृत्याः तं विधि सत्कारं लब्ध्वा अनाथाः स्वामिरहिताः, स्वतन्त्रा इति यावत् । नेवायोध्यामित्येतां वाचमुदैरयन्निति सम्बन्धः॥५८॥५९॥ सम्प्रहृष्टा इति । विनेदुः जगणुः ॥६॥६१॥ तत इति । तदनं पूर्वोक्तभक्ष्यादिचतुर्विधानम् । भक्षणे पुनर्भक्षणे। मतिरभवत्, भक्ष्यसौष्ठवादिति भावः ॥ ६२॥ प्रेष्याः परिचारकाः । चटयः दास्यः । वध्वः। योधाङ्गनाः। बले सेनायां तिष्ठन्तीति बलस्थाः। सर्वविशेषणमेतत् । अहतवाससः नूतनवस्त्राः । यद्वा आइतवाससः निर्णिक्तवाससः॥६॥ कुञ्जरा इति । मुदिताः स्रक्चन्दनादिभोगातिशयेन दृष्टाः ॥५६-१८॥ हस्त्यश्वारोहबन्धकाः हस्त्यश्वारोहास्तद्वन्धकाच तद्विधि ताहशसत्कारविधिम् ॥ ५९-६२ ॥ चेटचः दास्यः ॥ १३ ॥ सुभृताः सुपुष्टाः । अन्योह्यन्यं नाकल्पयत् ऋषिकृतव्यतिरिक्तादन्ये नाकरोत् ॥ ६४ ॥६५॥ सत्य-गोऽश्वाः " विभाषा रक्ष- " इत्यादिना पचान्द्रस्यले एकवनात्वस्य विकस्पितत्वादयमपि साधुः । “ गवाश्वप्रभूतीनि च" इत्यस्यार्य विषयः । तथा पाठे रूपमेषां विवक्षितम् नतु बोत्तरपदनिर्देश
For Private And Personal Use Only