________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
शिशुपादयः प्रमदाविग्रहं कृत्वा यावदिच्छथ तावद्भक्ष्यन्तामित्यवदन्निति सम्बन्धः । सुरापाः हे सुरापानप्रवृत्ताः । इमाः सुराः पिबत । हे बुभुक्षिताः पायसपानेच्छवः। इदं पायसं भक्ष्यतामिति वचनविपरिणामेनानुषज्यते । सुमेध्यानि परिशुद्धानि ॥५०॥५१॥ उच्छाद्येति । उच्छाद्य उद्वर्त्तनं कृत्वा । उच्छाद्य स्नापयन्ति स्म नदीतीरेषु वल्गुषु । अप्येकमेकं पुरुषं प्रमदाः सप्त चाष्ट च ॥ ५२ ॥ संवाहन्त्यः समापेतुर्नार्यो रुचिरलोचनाः । परिमृज्य तथान्योन्यं पाययन्ति वराङ्गनाः ॥ ५३ ॥ हयान् गजान् खरानुष्ट्रां स्तथैव सुरभेः सुतान् । अभोजयन वाहनपास्तेषां भोज्यं यथाविधि ॥ ५४ ॥ इक्षुश्च मधुलाजांश्च भोजयन्ति स्म वाह नान् । इक्ष्वाकुवरयोधानां चोदयन्तो महाबलाः ॥ ५५ ॥ नाश्वबन्धोऽश्वमाजानान्न गजं कुअरग्रहः । मत्तप्रमत्त मुदिता चमूः सा तत्र सम्बभौ ॥ ५६ ॥
७८
Acharya Shri Kailassagarsuri Gyanmandir
"उद्वर्त्तनो च्छादने द्वे" इत्यमरः । तैलादिना शरीरमर्दनं कृत्वेत्यर्थः । वल्गुषु रम्येषु । एकमेकमिति “एकम्बहुव्रीहिवत्" इति बहुव्रीहिवद्भावाभाव आर्षः । संवाहन्त्यः संवाइयन्त्यः पादसंवाहनं कुर्वन्त्यः । परिमृज्य जलार्द्रमङ्गं वस्त्रादिना परिमृज्य अलंकृत्येतिवार्थः । अन्योन्यं रहसि पाययन्ति, सुरा इति | शेषः ॥५२॥५३॥ हयानिति । वाहनपाः ऋषिप्रभावसिद्धा वाहनपाः वाहनरक्षकाः तेषां हयादीनां यथाविधि यथायोग्यं भोज्यम् तत्तद्वाहनानुगुणं भोज्य मित्यर्थः । हयादीन् अभोजयन् । ण्यन्तत्वाद्विकर्मकत्वम् । सुरभेः सुतान् वृषभान् ॥ ५४ ॥ महाबला ऋषिप्रभावसिद्धवाहनपाः । इक्ष्वाकुवरयोधानां वाहनान् वाहनानि । इक्षून् मधुलाजान् मधुमिश्रलाजान्। “भक्ष्येण मिश्रीकरणम्” इति समासः । चोदयन्तः भक्षणार्थे प्रेरयन्तः सन्तः भोजयन्ति स्म ॥५५ अश्वं बनातीत्यश्वबन्धः अश्वग्राहकः । नाजानात् न ज्ञातवान् । तत्र हेमतुमाह मत्तेति । मदकरद्रव्यसेवया मत्ताः प्रमत्ताः मधुपानादिना कार्य्याकार्य्यं न्यास्सन्ति ताः प्रमदाविग्रहं कृत्वा यावदिच्छथ तावद्भक्ष्यन्तामित्यवदन्निति सम्बन्धः ॥ ५० ॥ ५१ ॥ उच्छाद्य उद्वर्त्तनं कृत्वा । " उद्वर्त्तनोच्छादने द्वे " इत्य मरः । संवाहन्त्यः संवाहयन्त्यः, पादसंवाहनं कुर्वन्त्य इति यावत् । परिमृज्य जलाईमङ्गं वस्त्रादिना परिमृज्य, अलंकृत्वेति वा । पाययन्ति मध्वादिकमिति शेषः ॥ ५२ ॥ ५३ ॥ सुरभेस्सुतान् बलीवर्दान् ॥ १४ ॥ इक्ष्वाकुवरयोधानां वाहान चोदयन्तः प्रेरयन्तः महाबलाः वाहनपाः इक्ष्वादीन भोजयन्ति स्मेति सम्बन्धः॥५५॥ | अश्ववन्धः अश्वग्राहकः । नाजानात् नाज्ञासीत् । कुञ्जरग्रहः कुञ्जरग्राहकः । मत्तप्रमत्तमुदिताः मत्ता मदकरद्रव्यसेवया प्रमत्ताः मधुपानेन कार्याकार्यविवेकशून्याः ।
For Private And Personal Use Only