________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मिवेत्यर्थः ॥३७॥ आसनमिति । आसनं पूजयामासेत्यत्र राजबदित्यनुकर्षः। रामाय आसनोपरि स्थितत्वेन भाविताय । वालव्यजनमादाय स्वशेषत्वानु गुणतयेति भावः। सचिवासने सचिवाथै क्लुप्ते आसने, सिंहासनाधःप्रदेशस्थ इत्यर्थः॥३८॥ आनुपूादिति । सेनापतिः दण्डनायक प्रशास्ता शिबिर नियन्ता ॥३९॥ तत इति । मुहूर्तेन अल्पकालेन ॥४०॥ तासामिति । उभयतःकूलम् उभयोः कूलयोरित्यर्थः । पाण्डुमृत्तिकलेपनाः मुधानु
आसनं पूजयामास रामायाभिप्रणम्य च। वालव्यजनमादाय न्यषीदत् सचिवासने ॥ ३८॥ आनुपूान्निषेदुश्च सर्वे मन्त्रिपुरोहिताः। ततः सेनापतिः पश्चात् प्रशास्ता च निषेदतुः॥ ३९॥ ततस्तत्र मुहूर्तेन नद्यः पायसकर्दमाः। उपातिष्ठन्त भरतं भरद्वाजस्य शासनात् ॥ ४०॥ तासामुभयतःकूलं पाण्डुमृत्तिकलेपनाः । रम्याश्चावसथा दिव्या ब्रह्मणस्तु प्रसादजाः॥४१॥ तेनैव च मुहूर्तेन दिव्याभरणभूषिताः। आगुर्विशतिसाहस्रा ब्रह्मणा प्रहिताः स्त्रियः॥ ४२ ॥ सुवर्णमणिमुक्तेन प्रवालेन च शोभिताः। आगुर्विशतिसाहस्राः कुबेरप्रहिताः स्त्रियः॥४३॥ याभिर्गृहीतपुरुषः सोन्माद इव लक्ष्यते । आयुर्विशतिसाहस्रा नन्दनादप्ससेगणाः ॥४४॥ नारदस्तुम्बुरुगोपः
प्रवराः सूर्यवर्चसः । एते गन्धर्वराजानो भरतस्याग्रतो जगुः ॥४५॥ लिप्ता इत्यर्थः। “ड्यापोः-" इति हस्वः । ब्रह्मणः भरद्वाजस्य उपातिष्ठन्तेत्येतदनुषज्यते ॥४३॥ तेनेति । आगुराजग्मुः । सहस्रमेव साहस्रम् । ब्रह्मणा चतुर्मुखेन । स्त्रियः अप्सरसः॥४२॥ सुवर्णेति । सुवर्णमणिमुक्तेन सुवर्णानि सुवर्णमयाभरणानि मणयो रत्नानि मुक्ताश्च सुवर्णमणिमुक्तं तेन । “जातिर प्राणिनाम्" इति एकवद्भावः ॥४३॥ याभिरिति । गृहीत आलिङ्गितः याभिः यरित्यर्थः। एतदर्थस्य पूर्वेण वान्वयः। कुबेरपहिताः गन्धर्वाप्सरसः। तथा हि श्रुतिः “गन्धाप्सिरसो वा एतमुन्मादयन्ति । यउन्माद्यति" इति । याभिहीताः पुरुषाः सोन्मादा इति होच्यते । इतिच पाठः। तदा उच्यते श्रुत्येति शेषः।
हति प्रसिद्धौ ॥४४॥ नारद इति । नारदो ब्रह्मपुत्रादन्यः तुम्बुरुसाहचर्यात् । स हि पर्वतसहचरः । आह्वानसमये तुम्बुरुणेत्यस्योपलक्षणार्थत्वात् । Sमासनादिकं सर्व प्रदक्षिण च चकारेत्यर्थः ॥ ३७ ॥ ३८ ॥ प्रशास्ता शिबिरनियन्ता ॥ ३९ ॥ ४० ॥ उभयतःकूलम् उभयोः कूलयोरित्यर्थः । पाण्डमृत्तिकलेपनाः||
सुधालिप्ताः । ब्रह्मणः भरद्वानस्य ॥४१॥ आशु: आजग्मुः ॥ ४२ ॥ सुवर्णेत्यादिसार्धश्लोकमेकं वाक्यम् । सुवर्णमाणिमुक्तेन सुवर्णानि सुवर्णमयाभरणानि मणयोल
For Private And Personal Use Only