________________
Shri Mahavir Jain Aradhana Kendra
Acharya Sh Kalassagarsun Gyarmandir
www.kabatirth.org
जा.रा.भ. ॥२६॥
टी.अ.का.
स०९१
वृक्षरिति शेषः ॥ ३१ ॥ चतुःशालानीति । चतुःशालानि सञ्जवनानि " चतुःशालं सञ्जवनम् " इति हलायुधः । आजग्मुरिति विपरिणामः । तोर णानि बन्धनमालाः “बन्धी बन्धनमाला तु तोरणं परिकीर्तितम्" इति हलायुधः । वन्दनमालेति पाठान्तरम् ।। ३२ ॥ सितमेपेत्यारभ्य धौतनिर्मल भाजनमित्यन्तमेकं वाक्यम् । आजगामेति क्रिया द्रष्टव्या । सितमेघनिभं सुधालेपनधवलत्वात् । दिव्यमाल्पकृताकारं दिव्यमालाभिः कृतालङ्कारम् ।।
चतुःशालानि शुभ्राणि शालाश्च गजवाजिनाम् । हर्म्यप्रासादसम्बाधास्तोरणानि शुभानि च ॥ ३२॥ सितमेघ निभं चापि राजवेश्मसु तोरणम् । दिव्यमाल्यकृताकारं दिव्यगन्धसमुक्षितम् ॥ ३३॥ चतुरश्रमसम्बाधं शयना सनयानवत् । दिव्यः सर्वरसैर्युक्तं दिव्यभोजनवखवत् । उपकल्पितसर्वान्नं धौतनिर्मलभाजनम् ॥३४॥ क्लप्तसर्वासनं श्रीमत् स्वास्तीर्णशयनोत्तमम् । प्रविवेश महाबाहुरनुज्ञातो महर्षिणा । वेश्म तद्रनसम्पूर्ण भरतः केकयीसुतः॥ ३५॥ अनुजग्मुश्च तं सर्वे मन्त्रिणः सपुरोहिताः । बभूवुश्च मुदा युक्ता दृष्ट्वा तं वेश्मसंविधिम्
॥३६॥ तत्र राजासनं दिव्यं व्यजनं छत्रमेव च । भरता मन्त्रिभिः साद्धमभ्यवत्तेत राजवत् ॥ ३७॥ दिव्यगन्धैर्दिव्यचन्दनः। समुक्षितं सिक्तम् । चतुरथं चतुष्कोणम् । असम्बाधं विशालम् । शयनासन यानवत् यानं शिविकादि । रसैःशर्करादिभिः। दिव्य धाभोजनवस्त्रवत् दिव्यभोजनानि सूक्ष्मशाल्यन्नादीनि दिव्यवस्त्राणि सूक्ष्मवत्राणि उपकल्पितानि सर्वान्नानि नानाविधापूपादीनि यस्मिन् तत् ।धौत। निर्मलभाजनं धौतत्वेन निर्मलानि भाजनानि यस्मिन् तत्तथा ॥३३॥३४॥ क्लतसर्वासनमित्यत्र वानभोजनाद्यासनान्युच्यन्ते । शयनासनेत्यत्र राजा सनं तत्साहचर्याच्छयनं च महाशयनम्, स्वास्तीर्णशयनोत्तममित्यत्र निद्रार्थशयनम् । तत्र भरतस्य प्रवेशमाह प्रविवेशेति । महाबाहुरित्यनेन तदईत्व । मुच्यते । केकयीसुत इत्यनेन केकयीदत्तराज्येप्यनादरः किमत्र आदरं करिष्यतीति द्योत्यते। महर्षिणा भरद्वाजेन ॥३५ ।। अनुजग्मुरिति । वेश्म संविधि वेश्मसंविधानम् ॥ ३६॥ तत्रेति । राजासनं राजाहर्हासनम् । अभ्यवर्तत अभितो वर्तिष्ट, प्रदक्षिणं कृतवानिति यावत् । राजवत् राजतुल्यं राम तीरज वृक्षैरिति शेषः ॥ ३१ ॥ चतुश्शालादयोऽभूवनिति शेषः ॥ ३२ ॥ शुकमाल्यकृताकारमिति पाठः। शुक्माल्यैरलंकृतमित्यर्थः । यद्राजवेश्म रत्नसम्पूर्ण तद्वेश्म प्रविवेशेति सम्बन्धः ॥ ३३-३५ ॥ वेश्मसंविर्षि वेश्मसंविधानम् ॥ ३६॥ अभ्यवर्तत अभितोऽवर्तिष्ट प्रदक्षिणं कृतवानित्यर्थः । राजवत् राजाईम् । राजाई |
॥२६॥
For Private And Personal Use Only