________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
बा.रा.भू. ॥२६॥
कौबेरमित्युक्तम् । इयं च कुबेरं प्रत्येवोक्तिः । नदीनामिव बनस्यावानं तदधिष्ठातृदेवताद्वारा ॥ १९ ॥ एवं कुबेरं प्रत्युक्त्वा अन्नपतिं चन्द्र प्रत्याहइति । मे मन्त्रिमित्तम् । भगवान् माहात्म्यवान् । सोम ओषधीनामधिपतिश्चन्द्रः उत्तममन्नं विधत्ता सम्पादयतु । अन्नं चतुर्विधत्वेन विशेषयति-भक्ष्य। मित्यादि । भक्ष्यं खाद्यमपूपादि । भोज्यम् ओदनादि । चोष्यं शुष्कादि । लेह्यं रसायनादि । विविधम् एकैकमनेकविधं । तदपि बहु अनल्पम् ॥२०॥
इह मे भगवान सोमो विधत्तामन्नमुत्तमम् । भक्ष्यं भोज्यं च चोष्यं च लेह्यं च दिति बहु ॥२०॥ विचित्राणि च माल्यानि पादपप्रच्युतानि च । सुरादीनि च पेयानि मांसानि विविधानि च ॥२१॥ एवं समाधिना युक्त स्तेजसाऽप्रतिमेन च । शीक्षास्वरसमायुक्तं तपसा चाब्रवीन्मुनिः ॥ २२ ॥ मनसा ध्यायतस्तस्य प्राङ्मुखस्य कृताञ्जलेः । आजग्मुस्तानि सर्वाणि दैवतानि पृथक्टथक् ॥ २३॥ मलयं दर्दुरं चैव ततः वेदनुदोऽनिलः।
उपस्पृश्य ववौ युक्त्या सुप्रियात्मा सुखः शिवः ॥ २४ ॥ विचित्राणीति । पादपप्रच्युतानि, नवानीति भावः ॥२१॥ एवमाह्वाने शक्तिविशेष दर्शयति-एवमित्यादिना । समाधिना योगेन । तपसा ज्ञानेन । यद्वा अनशनादिकायक्लेशरूपेण अतएव तेजसा अनागमे दण्डनसामर्थ्येन च युक्तःमुनिः। शीक्षास्वरसमायुक्तं शीक्ष्यन्ते उपदिश्यन्ते वर्णस्वरादयोऽनयेति शीक्षा। छान्दसो दीर्घः। शीक्षाप्रतिपाद्यस्वरयुक्तमिति क्रियाविशेषणम् । "दुष्टः शब्दः स्वरदो वर्णतो वा मिथ्याप्रयुक्तो न तमर्थमाह । स वाग्वज्रो यजमानं हिनस्ति यथेन्द्रशत्रुः स्वरतोऽपराधात्" इतिस्वरापराधस्य प्रत्यवायहेतुत्वरणात ! एवम् आह्वये विश्वकर्माणमित्यारभ्योक्तरीत्या। अब्रवीत् आह्वान । मन्त्रानजपदित्यर्थः ॥२२॥ मनसेति । मनसा अनन्यपरेणेत्यर्थः । ध्यायतः निरन्तरं चिन्तयतः। प्राइमुखस्येत्यदृष्टविशेषार्थ कृतानलेरिति आह्वान मुद्रोक्ता । तानि पूर्वोक्तानि । देवतानि विश्वकर्मादीनि। मुनिदृष्टिविषयत्वाय पृथक्पृथक् आजग्मुः ॥२॥ मलपश्चन्दनालयः। दर्दुरस्तत्समीपस्थश्चन्दनो त्पत्तिस्थानभूतो गिरिः। तदुभयं चोपस्पृश्य सुप्रियात्मा सुप्रियस्वभावः, सुगन्ध इत्यर्थः। अतएव सुखः सुखकरः। शिवः शीतलः। युक्त्या अङ्गस्पर्शन। यस्य तत् । इहैतु अत्रागच्छतु ॥ १९ ॥ इह म इत्यादिश्लोकद्वयमेकं वाक्यम् । पादपप्रच्युतानि वृक्षेभ्यः स्वयं चोदितानि ॥२०॥ २१ ॥ शीक्षास्वरसमायुक्तं शीक्षा शास्त्रोक्तस्वरसहितम् मन्त्रमिति शेषः । अब्रवीत् आहानार्थमुच्चारितवान् ॥ २२ ॥ २३॥ मलयं दर्दरमिति चन्दनोत्पत्तिहेतुपर्वती। युतया यथोचितवृत्त्या ॥२४॥
॥२६८॥
For Private And Personal Use Only