________________
Shri Mahavir Jain Aradhana Kendra
www.kabatirth.org
Acharya Shri Kailassagarsuri Gyarmandir
अन्याः काश्चन मैरेयं मिरादेशे भवं खघुरादिहेतुकं मद्यविशेषम् । सुरां "गौडी पेष्टी च माध्वी च विज्ञेया त्रिविधा सुरा" इत्युक्तां त्रिविधा सुराम् । सुनि । ष्ठितां सुनिष्पादिताम् । इक्षुकाण्डरसोपमम् । काण्डो वर्गः ॥१५॥ गानार्थमाह्वयति-आह्वय इति । देवगन्धर्वान् मनुष्यगन्धर्वभिन्नान् । हहाहुहूनिति च्छान्दसो हवः । अप्सरसां वैविध्यमाह-देवीर्गन्धर्वीरिति । देवी देवजातीः । गन्धर्वी गन्धर्वजातीः । अतएव " एते वै गन्धर्वाप्सरसां गृहाः" इति ।
आह्वये देवगन्धर्वान विश्वावसुहहाहुहुन् । तथैवाप्सरसो देवीर्गन्धर्वीश्चापि सर्वशः ॥ १६॥ घृताचीमथ विश्वाची मिश्रकेशीमलम्बुसाम् । नागदन्तां च हेमां च हिमामद्रिकृतस्थलाम् ॥ १७॥ शक्रं याश्चोपतिष्ठन्ति ब्रह्माणं याश्च योषितः । सर्वास्तुम्बुरुणा सार्द्धमाह्वये सपरिच्छदाः॥१८॥
वनं कुरुषु यदिव्यं वासोभूषणपत्रवत् । दिव्यनारीफलं.शश्वत्तत्कौबेरमिहैतुच ॥ १९॥ श्रीतप्रयोगः ॥ १६॥ आवश्यकत्वेन प्रधानाप्सरसो विशिष्याह्वयति-घृताचीमित्यादिना। घृतवदच्यते पूज्यत इति घृताची। विश्वैः समस्तैःअभ्च्यत इति विश्वाची। मिश्रकेशी निरन्तरकेशी श्रेष्ठकेशी वा। बुसेभ्योलमलम्बुसाम् । बुसा बुधाः देवाः वर्णविपर्ययः। नागानां दन्ता इव शुभ्राः दन्ताः यस्यास्तां नागदन्ताम् । हेमां हेमवर्णाम् । पुनश्च हेमामिति पाठे-पूर्वोक्तहेमापेक्षया अस्या व्यावृत्तिमाह अद्रिकृतस्थलामिति । अद्रौ महेन्द्रे मयेन कृतनिवासां स्वय म्प्रभाबिलस्थामित्यर्थः । हिमामितिपाठे-हिमवच्छीतलाङ्गीम् । यद्वा हिममस्यास्तीति हिमा । अद्रिकृतस्थला चान्या एवमेतान्यन्वर्थनामानि ॥१७॥
शकमिति ः शक्र या उपतिष्ठन्ति रम्भोर्वशीमेनकादयः । ब्रह्माणं चतुर्मुखं तल्लोकेप्यप्सरसः सन्ति । " तं पञ्चशतान्यप्सरसां प्रतिधावन्ति" इति श्रुतेः। सदन ममातरमनुमृत्योक्तम् । तुम्बुरुणा तासां गानशिक्षकेण सपरिच्छदाः नृत्यगीताद्युपकरणसहिताः सालङ्कारा वा ॥१८॥ भोगोपकरणान्याहूय
भोमस्थानान्याह्वयति-वनमिति । वनं चैत्ररथाख्यम्, तच्चोत्तरकुरुदेशे वर्तते । दिव्यं देवाईम्। वासोभूषणान्येव पत्राण्यस्मिन् सन्तीति वासाभूषणपत्रवत्। दासत् सर्वदा। दिव्यनार्य एवं फलानि यस्मिन् तत् तथा । एवम्भूतं यत्कौबेरमस्ति तत् इह वने एतु आगच्छतु । उत्तरदिक्पालत्वेन कुबेराधिष्ठितत्वात
। मुस्मिताः ॥ १५-१७ ॥ सपरिच्छदाः सालङ्काराः ॥ २८ ॥ वासोभूषणपत्रवत् वासो भूषणान्येव पत्राणि यस्मिन् सन्तीति तथा । दिव्यनार्य एव फलानि
For Private And Personal Use Only