________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kalassagarsun Gyarmander
२६॥
ऋषयः यत्नतः परिहर्तव्याः, ससैन्येन तन्समीपं न गन्तव्यमित्यर्थः ॥७॥ कोपनिमित्तमाह-वाजिमुख्या इत्यादिना । उटजान् पर्णशालाः॥८॥९॥ टी.अ.का. आनीयतामिति । ततः सेनानिवेशस्थलात्। इतः इह । समुपागम समानयनम् ॥ १० ॥ अग्निशालामिति । अग्निशालाप्रवेशः पावनत्वार्थः, देवतासनि ... धानस्थलत्वात् । अप. पीत्वा, विरिति शेषः । “त्रिराचामेत् " इतिश्रुतेः । परिमृज्य आस्यम् , द्विरितिशेषः । “द्वि-परिमृज्य" इतिश्रुतेः । चका
वाजिमुख्या मनुष्याश्च मत्ताश्च वरवारणाः। प्रच्छाद्य भगवन् भूमि महतीमनुयान्ति माम् ॥ ८॥ ते वृक्षानुदकं भूमिमाश्रमेषूटजांस्तथा। न हिंस्युरिति तेनाहमेक एव समागतः ॥ ९॥आनीयतामितः सेनेत्याज्ञप्तः परमर्षिणा। ततस्तु चक्रे भरतः सेनायाः समुपागमम् ॥ १०॥ अग्निशालां प्रविश्याथ पीत्वापः परिमृज्य च । आतिथ्यस्य क्रियाहेतोविश्वकर्माणमाह्वयत् ॥ ११॥ आह्वये विश्वकर्माणमहं त्वष्टारमेव च । आतिथ्यं कर्तुमिच्छामि तत्र मे संविधीयताम् ॥ १२॥ आह्वये लोकपालांस्त्रीन् देवान शकमुखांस्तथा। आतिथ्यं कर्तुमिच्छामि तत्र मे संविधी यताम् ॥ १३ ॥ प्राक्स्रोतसश्च या नद्यः प्रत्यक्स्रोतस एव च । पृथिव्यामन्तरिक्षेच समायान्त्वद्य सर्वशः॥१४॥
अन्याः स्रवन्तु मैरेयं सुरामन्याः सुनिष्टिताम् । अपराश्चोदकं शीतमिक्षुकाण्डरसोपमम् ॥ १५ ॥ रेण सकृदुपस्पृश्य शिरश्चक्षुषी नासिके श्रोत्रे हृदयमारभ्य इत्युक्तसंग्रहः । अनेन सर्वकाङ्गमाचमनमिति दार्शितम् । कियाहेतोः करणनिमित्तम् । ला॥११॥ आह्वानमन्त्रमाह-आह्वय इत्यादिना । आह्वय इत्यात्मनेपदमार्षम् । विश्वकर्मा सर्वशिल्पकर्ता त्विष्टा तु तक्षणेन गृहादिनिर्माता । यद्वा त्वष्टारमेव चेत्यवधारणेनासुरविश्वकर्मा मयो व्यावय॑ते । तत्रातिथ्यनिमित्तं संविधीयतां गृहादिसंविधानं क्रियताम् ॥ १२॥ वक्ष्यमाणानपानादिरक्ष णाय लोकपालानाह्वयति-आह्वय इति । शकमुखान् इन्द्रप्रधानान् । शकस्य पृथनिर्देशात् त्रीन् लोकपालान् यमवरुणकुबेरान् देवानित्यग्न्यादय उच्यन्ते । संविधीयतां पालनं क्रियताम् ॥१३॥ सर्वा नदीधा विभज्याह्वयति-प्राक्स्रोतस इति । सह युगपत् ॥१४॥ तासां कर्त्तव्यमाह-अन्या इति।
॥२६॥ तपस्विनः परिहर्तव्याः सेनया सह गमने तेषामाश्रमपीडा भवेदिति भावः॥७-९॥ समुपागमं समानयनम् ॥१०॥ पीत्वापः परिमृज्य सम्यगाचम्य ॥११॥१२॥ बीन लोकपालान् यमवरुणकुवरान ॥१३॥१४॥ मेरेयं मिरादेशभवं खरतालादिहेतुकं मद्यविशेषम् । सुरा "गौडी पैष्टी च माध्वी च विज्ञेया विविधा सुरा" इत्युक्ताम् ।।
For Private And Personal Use Only