________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
सतत इति । प्रतीतरूपः प्रसिद्धकीर्तिः । “रूपं यशस्याभिरूप्ये वर्णे चैव निरूपणे" इति निघण्टुः । यद्वा प्रतीतरूपः प्रकर्षेण हृष्टः । प्रशंसायां रूपप् ।
चकार बुद्धिं चेति नझुक्तिरन्या बुद्धिरन्योतिभावः॥२४॥ इति श्रीगोविन्दराज श्रीरामायणभूषणे पीता अयोध्याकाण्डव्याख्यानेनवतितमस्सर्गः॥९॥ कृतेति । तत्रैवाश्रमे निवासाय कृतबुद्धिं निश्चितबुद्धिं भरतं स मुनिः आतिथ्येन भोजनपर्यन्तातिथिसत्काराय न्यमन्त्रयत् प्रार्थयामास ॥१॥
ततस्तथेत्येवमुदारदर्शनः प्रतीतरूपो भरतोऽब्रवीद्वचः । चकार बुद्धिं च तदा तदाश्रमे निशानिवासाय नराधिपा त्मजः ॥२४॥ इत्याचे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे नवतितमः सर्गः ॥९॥ कृतबुद्धिं निवासाय तत्रैव स मुनिस्तदा । भरतं कैकयीपुत्रमातिथ्येन न्यमन्त्रयत् ॥१॥ अब्रवीद्भरतस्त्वेनं नन्विदं भवता कृतम् । पाद्यमयं तथातिथ्यं वने यदुपपद्यते ॥२॥ अथोवाच भरद्वाजो भरतं प्रहसन्निव । जाने त्वां प्रीति संयुक्तं तुष्येस्त्वं येन केनचित् ॥ ३॥ सेनायास्तु तवैतस्याः कर्तुमिच्छामि भोजनम् । मम प्रीतियथारूपा त्वमों मनुजाधिप ॥४॥ किमर्थं चापि निक्षिप्य दूरेबलमिहागतः। कस्मान्नेहोपयातोसि सबलः पुरुषर्षभ ॥५॥ भरतः प्रत्युवाचेदं प्राञ्जलिस्तं तपोधनम् । ससैन्यो नोपयातोऽस्मि भगवन् भगवद्भयात् ॥ ६॥ राज्ञा च भगवन नित्यं राजपुत्रेण वा सदा। यत्नतः परिहर्त्तव्या विषयेषु तपस्विनः ॥७॥ अब्रवीदिति । वने यत्फलमूलादिकम् उपपद्यते लभ्यते तेन तापसाहारेणातिथ्यं कृतम्, ननु एतावन्मात्रेण तुष्टोऽस्मीति भावः ॥२॥ अथेति। प्रहसन्निव प्रहासावेदकानुभावयुक्तः । मुनिरितःपरं किं करिष्यतीति मरताशयज्ञानेन हासः, त्वां प्रीतिसंयुक्त मद्विषये सन्तुष्टं जाने अत एव केनचिदपचारेण तुष्येः तुष्टो भवः ॥३॥ सेनाया इति । भुज्यत इति भोजनमनम् । अत्रादौ तथापीत्युपस्कार्यम्, तथापि मम प्रीतियथारूपाण यादृशप्रकारा तथा त्वमर्हः, त्वं तथा प्रीतो भवितुमर्ह इत्यर्थः, तथानुमन्तुमर्हसीत्यर्थों वा ॥१॥ किमर्थमिति । उक्तमेवार्थे व्यतिरेकमुखेनाप्याह-कस्मादित्यादिना ॥५॥ भरत इति । भगवद्भयात् भवान कुप्येदिति भयात् ॥ ६॥ राज्ञेति । विषयेषु तपस्विनः स्वकीयदेशेषु वर्तमानाः प्रतीतरूपः प्रकर्षेण हष्टरूपः॥२४॥ इति श्रीमहेश्वरतीर्थ श्रीरामा तत्त्व. अयोध्याकाण्डव्याख्यायो नवतितमः सर्गः ॥ ९० ॥ कृतबुद्धिं कृताध्यवसायम् ॥१॥ वने ॥ यदुपपद्यते तेन आतिथ्यं कृतं नन्वित्यब्रवीदितिसम्बन्धः ॥५॥३॥ तथाईः तथाङ्गीकर्तुमर्हसीत्यर्थः । (तथाहों मनुजाधिप इति पाठः).॥४-६॥ विषयेषु देशेषु ।
For Private And Personal Use Only