________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
बा.रा.भू. भरद्वाजाश्रममित्यादिश्लोकद्वयमकान्वयम् । कोशादेव कोशात् पूर्वमेव, कोशमात्रव्यवाहितदेश इत्यर्थः। न्यस्तशस्त्रपरिच्छदः परिच्छदः आभरणादिकं टी.अ.कां. १२५लाभृङ्गाराद्युपकरणजातं च । वसानो वाससी क्षोमे भरद्वाजसेवार्थमुष्णीषक कादिकमपहाय परिधानमुत्तरीयं च धृत्वा गत इत्यर्थः। ननु पूर्व जटाचीराणि ॥
स० धारयन्नित्युक्तं जटिलं चीरवसनमिति च वक्ष्यति, कथमत्र क्षोमवासस्त्वमुच्यते ? नैप दोषः पूर्व प्रतिज्ञामानं कृतम्, भरद्वाजाश्रमात्परं जटाधारणमिति ।
भरद्वाजाश्रमं दृष्ट्वा क्रोशादेव नरर्षभः । बलं सर्वमवस्थाप्य जगाम सह मन्त्रिभिः ॥१॥ पयामेव हि धर्मज्ञो न्यस्तशस्त्रपरिच्छदः । वसानो वाससी क्षीमे पुरोधाय पुरोधसम् ॥ २॥ ततः सन्दर्शने तस्य भरद्वाजस्य राघवः । मन्त्रिणस्तानवस्थाप्य जगामानुपुरोहितम् ॥३॥ वसिष्टमथ दृष्ट्वैव भरद्वाजो महातपाः । सञ्चचाला सनात्तूर्ण शिष्यानय॑मिति ब्रुवन् ॥४॥ समागम्य वसिष्ठेन भरतेनाभिवादितः। अबुध्यत महातेजाः सुतं दश रथस्य तम् ॥ ५॥ ताभ्यामयं च पाद्यं च दत्त्वा पश्चात् फलानि च। आनुपूर्व्याच्च धर्मज्ञः पप्रच्छ कुशलं कुले ॥६॥ अयोध्यायां बले कोशे मित्रेष्वपि च मन्त्रिषु । जानन् दशरथं वृत्तं न राजानमुदाहरत् ॥ ७॥ वसिष्ठो
भरतश्चैनं पप्रच्छतुरनामयम् । शरीरेऽग्निषु वृक्षेषु शिष्येषु मृगपक्षिषु ॥८॥ Kापुरोधाय पुरस्कृत्य ॥ १ ॥२॥ तत इति । सन्दर्शने दूरादर्शने । राघवः रघुवंशवृत्ताभिज्ञः । अनुपुरोहितं पुरोहितस्य पश्चात् । अनोः पादर्थे । Mव्ययीभावः ॥३॥ वसिष्ठमिति । सञ्चचाल उदतिष्ठत् । अय॑म् , आनयतेतिशेषः॥ ४॥ समागम्येति । सवयस्कत्वान्नमस्काराभावः । अबुध्यतेति
वसिष्ठसाहचर्यादिति भावः॥५॥ताभ्यामिति । आनुपूर्व्यात् प्रधानक्रमात् धर्मज्ञः पूजाकमधर्मज्ञः । कुले गृहे ॥ ६॥ अयोध्यायामिति । वृत्तम्। व अतीतम्, मृतमिति यावत् । नोदाहरत् तत्प्रसङ्गमेव न कृतवान् ॥ ७॥ तपोधनानां शरीराग्यादेः तपस्साधनत्वात् मृगपक्ष्यादीनामाश्रमवासित्वेन शिष्यवत् प्रीतिविषयत्वाच तद्विपयःप्रश्नः कृत इत्याह-वसिष्ठ इत्यादिना ॥८॥
Kal॥२६५॥ भरद्वाजेत्यादिश्लोकद्वयमेकं वाक्यम ॥१॥२॥ पुरोहितमनुजगाम पुरोहितं पुरतः कृत्वा जगामेत्यर्थः ॥ ३ ॥ अर्यम आनयामासेति शेषः ॥४॥५॥ वृत्तं नोदाहरत
For Private And Personal Use Only