SearchBrowseAboutContactDonate
Page Preview
Page 537
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir पतिथेति तत्प्रतिज्ञाय सर्वत्र तत्पृष्टमनामयमङ्गीकृत्य । राघवस्नेहबन्धनात् राघवविषये नेहानुबन्धनात् । नतु भरते दोषदर्शनात् ॥ ९॥ किमिति । न शुद्धयते शुदिन प्रामोति, न विश्वसितीति यावत् ॥ १० ॥ सुषुव इत्यादिश्लोकत्रयमेकान्वयम् । नन्दवर्द्धनम् आनन्दवर्द्धनम् । चिरं प्रत्राजितः चिरकालमुद्दिश्य प्रवाजितः । यः एतादृशः तस्य रामस्य राज्यमकण्टकं भोक्तुमनाः अपापस्य तस्यानुजस्य च पापं कर्तुं नेच्छसि । तथेति तत्प्रतिज्ञाय भरद्वाजो महातपाः । भरतं प्रत्युवाचेदं राघवस्नेहबन्धनात् ॥९॥ किमिहागमने कार्य तव राज्यं प्रशासतः। एतदाचक्ष्व मे सर्व नहि मे शुद्धयते मनः॥१०॥ सुषुवे यममित्रनं कौसल्या नन्दवर्द्ध नम् । भ्रात्रा सह सभार्यो यश्चिरं प्रवाजितो वनम् ॥ ११॥ नियुक्तः स्त्रीनियुक्तेन पित्रा योऽसौ महायशाः । वनवासी भवेतीह समाः किल चतुर्दश ॥१२॥ कच्चिन्न तस्यापापस्य पापं कर्तुमिहेच्छसि। अकण्टकं भोक्तुमना राज्यं तस्यानुजस्य च ॥ १३॥ एवमुक्तो भरद्वाजं भरतःप्रत्युवाच ह। पर्याश्रुनयनो दुःखादाचा संसज्जमानया ॥ १४ ॥ हतोऽस्मि यदि मामेवं भगवानपि मन्यते । मत्तो न दोषमाशङ्के नैवं मामनुशाधि हि ॥ १५॥ न चैत दिष्टं माता मे यदवोचन्मदन्तरे । नाहमेतेन तुष्टश्च न तद्वचनमाददे ॥ १६ ॥ कञ्चिदिति सम्बन्धः॥ ११-१३॥ एवमिति । पर्यश्रुनयनः परिघुताश्रुनयनः । संसज्जमानया स्खलन्त्या ॥१४॥हत इति । हतोऽस्मि व्यर्थ । जन्मास्मि । भगवानपि भूतभविष्यद्वर्तमानज्ञोऽपीत्यर्थः। मत्तः मत्सकाशात । मयि दोष नाशङ्के नोत्प्रेक्षे मत्कृतो दोषो नास्तीति सन्देहोपि मे6|| नास्तीत्यर्थः । अभावादिति भावः । अतो मामेवं नानुशाधि एवं कर्णारुन्तुदं वक्तुं नाहसि ॥१५॥ मातृकृतं त्वत्कृतमेवेत्याशङ्कयाह-नेति न पृष्टवान् ॥ ६-८॥ राघवस्नेहवन्धनात् रामविषयस्नेहबन्धनात् ॥५॥ न शुद्धचते शुद्धिं न प्रानोति, न विश्वसितीति यावत् ।। १० ॥ सुषुवइत्यादिश्लोकद्वयमेकं वाक्यम् । चिरंप्रवाजितः चिरकालमुद्दिश्य प्रवाजितः ॥ ११ ॥ १२ ॥ तस्य रामस्य । राज्यमकण्टकं भोनुमनाः, अपापस्य तस्यानुजस्य च पापं द्रोहं कर्तु नेच्छसि कञ्चिदिति सम्बन्धः॥ १३ ॥ पर्यश्रुनयनः परिघुताश्रुनयनः। संसजमानया स्खलन्त्या ॥ १४ ॥ भगवानपि भूतभविष्यद्वर्तमानार्थज्ञोपीत्यर्थः । मयि दोष नाशङ्के नोत्प्रेक्षे अतो मामेवं नानुशास्तु हि एवं कर्णकठोरं वक्तुं नार्हसि ॥ १५॥ मदन्तरे मया विना ॥१६॥ स०-रामहनने राज्यमकण्टकं भवतीति अकण्टकं भोतमनाः । तस्प रामस्यानुजस्य लक्ष्मणस्य च पापं वधरूपम् ॥ १३ ॥ हतोस्मि हतप्रायोस्मि ॥ १५ ॥ For Private And Personal Use Only
SR No.020792
Book TitleValmiki Ramayanam Part 02
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages691
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy