________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kalassagarsun Gyarmandie
ब्रह्मचर्यमुवास तंह जीणि स्थविरं शयानम्" इतिश्रुतेः। एतेन वयोवृद्धत्वमुक्तम् । ज्ञानवृद्धत्वमाह ऋषिमिति । "ऋष दर्शने" इति धातुः। भरद्वाज"बृहतो भरद्वाजः" इतिश्रुतिप्रसिद्धम्) द्रष्टुं दर्शनपूर्वकमभिवन्दिन्तुम् । तादृशस्य ऋषेविनीतवेषदर्शनीयत्वेन ऋत्विग्भिर्वसिष्टादिभिः वृतः सन् प्रतस्थे पद्यामेव जगाम॥२१॥स ब्राह्मणस्यति । ब्राह्मणस्य ब्रह्म वेदः तदधीते ब्राह्मणः। “तदधीते तद्वेद" इत्यणप्रत्ययः । अधीतबहुवेदस्येत्यर्थः । “भरद्वाजो इत्रिभि रायुभिब्रह्मचर्यमुवास" इत्यादिना काठके तथाभिधानात् । महात्मनो महाज्ञानस्य । देवपुरोहितस्य बृहस्पतिपुत्रत्वेन देवपुरोहितत्वम् । “आत्मा |
स ब्राह्मणस्याश्रममभ्युपेत्य महात्मनो देवपुरोहितस्य । ददर्शरम्योटजवृक्षषण्डं महदनं विप्रवरस्य रम्यम् ॥२२॥
इत्याचे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे एकोननवतितमः सर्गः ॥ ८९ ॥ Mपुत्रनामासि" इति न्यायात् । भरद्वाजो ममताख्यायामुचथ्यभार्यायां बृहस्पतेर्जात इति भागवते प्रसिद्धम् । आश्रममभ्युपेत्य आश्रममुद्दिश्य गत्वा ।।
प्रथमं तस्य महदनं ददर्श । (पाठभेदः। स इति । ब्राह्मणस्य ब्रह्म परमात्मानं वेत्तीति ब्राह्मणः। “तदधीते तद्वेद" इत्यणप्रत्ययः। उत्तरसर्गरीत्या समाधि बलेन समस्तवस्त्वाह्वानक्षमस्येत्यर्थः। यद्वा "ब्रह्मबृहस्पतिः" इतिश्रुत्या ब्रह्मणो बृहस्पतेरपत्यं ब्राह्मणः तस्य महात्मनः महास्वभावस्य, अचिन्त्यशक्ते | रित्यर्थः । देवपुरोहितस्य देवपुरोहितपुत्रत्वात् 'आत्मा पुत्रनामासि' इतिश्रुतेः) विप्रवरस्य निरवधिकवेदाध्ययनसम्पन्नस्य । “जन्मना जायते शुदः कर्मणा जायते द्विजः। वेदाभ्यासेन विप्रत्वं ब्रह्म जानाति ब्राह्मणः।" इत्यादिस्मृतेः।श्रुतिश्चास्य निरवधिकवेदाध्ययनसम्पत्ति दर्शयति "भरद्वाज यत्ते चतुर्थ मायुर्दद्या किमनेन कुर्या इति ब्रह्मचर्यमेवेनेन चरेयमिति होवाच" इत्यादिना। आश्रममभ्युपेत्य प्राप्य रम्योटजवृक्षपण्डं रमणीयपर्णशालाप्रान्तवार्त वृक्षसमूहयुक्तम् । रम्यं स्वतएव मनोज्ञप्रदेशम् । महत् स्वसेनानिवेशक्षमं वनं ददर्श ॥२२॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूपणे पीताम्बरा ख्याने अयोध्याकाण्डव्याख्याने एकोननवतितमः सर्गः ॥ ८९॥ यथोपजोषम् यथासुखम् ॥ २१॥ देवपुरोहितस्य भरद्वाजस्य देवपुरोहितत्वोक्तिः बृहस्पतिपुत्रत्वात् । बृहस्पतिरुचध्यभार्यायां ममतायां पुत्रमुत्पादयामास, भर्तुनिया पुत्रं परित्यकामा तो देवा उचुः। उचथ्यस्य क्षेत्रजत्वेन बृहस्पतेरोरसत्वेन"भरद्वाजममुं भर"इति। तस्माद्भरद्वाज इति । रम्पोटजवृक्षपण्ड रम्या उटजाः क्षपण्डानि वृक्षसमूहाः यस्मिस्तत् ॥२२॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्या अयोध्याकाण्डव्याख्यायो एकोननवतितमः सर्गः ॥८९॥
For Private And Personal Use Only